________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'सर्वमेतत् कम्मकाण्डो ब्रह्मकाण्डस्तन्त्राणि वैद्यकादौनि कलाच 'कोलक' दानप्रतिग्रहाख्थकम्मविशेषादिरूपं च विना, जाप्य चण्डीस्तवमात्रजपे तत्परः 'क्षेम' नानाविधप्रत्यवायानां रोगाणां च परिहारम् एहकामुभिकफलसमूह च, एतदेव विवृणोति सिध्यन्तीति 'एतेन' चण्डीस्तवन। नित्यमित्यादिभिव' वाक्यं, परब्रयापि स्तोत्रमात्रेणव सिध्यतीत्यर्थः // 2 // सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् (1) / सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः // 2 // प्रा। किमुवाच / सर्वमेतदिति / 'मन्त्राणां' सर्वेषा'मभिकीलकं' वक्ष्यमाणरीत्या सर्वमन्वसिविप्रतिबन्धकशापरूपकीलकनाशकत्वालक्षणया सप्तशतीस्तोत्रमभिकीलकं तत्सर्व विजानीया'दपासीतत्यर्थः नन्वन्यमन्त्रोपासनाभिः किं क्षेमं न भवति यतोऽत्रैवाग्रहः क्रियत इति चेद्भवत्येवेत्याह। सोऽपीति / तत् सप्तशतीस्तोत्र विना सततं जाप्य तत्परः नानामन्त्राणां जपरूप कम्मणि निरन्तरं निष्ठा यस्य स तत्परो यस्तु पुरुषः सोऽपि 'क्षम सर्व क्षेमं कल्याणं प्राप्नोतीत्यर्थः // 2 // (1) सर्वमेतद् विना यस्तु मन्त्राणामपि कीलकमिति गुप्तवतीसम्मतः पाठः / For Private and Personal Use Only