________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयन्तीति / मङ्गलेति मत्वर्थीयोऽच् // 1 // अ.स्तु 10 मार्कण्डेय उवाच। जयन्ती मङ्गला काली भद्रकालो कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा खधा नमोऽस्तु ते // 1 // प्र० / तस्या: प्रसादतः यमैवैष वृणुते तेन लभ्यस्तस्यैष आत्माविवृणुते तनुं स्वामिति श्रुतेः, य एतां मायाशक्ति वेद समृत्यं जयति सपाप्मानं तरति सोऽमृतत्वं च गच्छतीति श्रुतेः, अहमेव वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिरिति श्रुतेश्च। पार्वती परमा विद्या ब्रह्मविद्याप्रदायिनी। विशेषेणैव जन्तूनां नात्र सन्देहकारणम् इति सूतसंहितोक्तेश्च // 50 // 51 // कवचेऽस्मिन् माईपञ्चाशत्संख्यश्लोकसंग्रहः। अथार्गलाव्याख्यानम् / तत्र प्रथमतो देवताया उद्देश्याया गुणान् ध्यानोपयोगिन पाह। जयन्तीति। जयन्ती सर्वोत्कृष्टेत्यर्थः, गुणत्रयसाम्यावस्थोपाधिकब्रह्मरूपिण्या भगवत्याः सर्वकारणत्वात् 'मङ्गला'मङ्ग जननमर. णादिरूपं सर्पणं भक्तामा लातिगृह्णाति नाशयति मा मोक्षप्रदा मङ्गलेत्युञ्चते, म तस्य प्राणा उक्चामन्तीति श्रुतेः For Private and Personal Use Only