SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र.। 'काली' कलयति भक्षयति सर्वमेतत् प्रलयकाले इति काली, ब्रह्म क्षत्र चोभे भवत श्रोदनः मृत्यर्यस्थोपसेचनमिति श्रुतेः 'भद्रकाली' भट्र मङ्गलं सुखं कलयति स्वीकरोति भक्तभ्यो दातुमिति भद्रकाली, भद्रकाली सुखप्रदेति रहस्यागमऽर्थकथनात् 'कपालिनी' कपालोऽस्त्रीशिरोऽस्थि स्यात् घटादेः शकलेषु च इति मेदिनी कोशात् ब्रह्मादीन निहत्य तेषां कपाल राहीत्वा प्रलयकाले अटतीति, प्रपञ्च रूपाम्बुजं हस्ते यस्था इति वा कपालिनी मत्वर्थीय इनिः / प्रपञ्चाम्बुजहस्ता च कपालिन्युच्यते परति रहस्थागमात् / 'दुर्गा' दुःखेनाटाङ्गयोगसर्वकर्मोपासनारूपेण केशेन गम्यते प्राप्यते सा दुर्गा, तां दुर्गा दुर्गमा देवीमिति देव्यथर्वशिरसः 'क्षमा' भक्तानामन्येषां वा सर्वानपराधान् क्षमते सहते जननीत्वात् सातिशयकारुण्यवती क्षमत्युच्यते / 'शिवा' चिद्रूपिणीत्यर्थः चिन्मानाश्रयमायायाः शक्त्याकार हिजोत्तमाः अनुप्रविष्टाया संविनिर्विकल्पा स्वयं प्रभा॥ सदाकारा सदानन्दा संसारोच्छेदकारिणी। सा शिवा परमा देवी शिवाऽभिन्नाशिवहरी॥ इति सूतसंहितोक्तः, 'धात्री' सर्वप्रपञ्चधारणकर्ती, अहे रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहं मित्रा वरुणोभा विभयंहमिन्द्राग्नी अहमखिनोभेत्यादिश्रुतेः 'स्वाहा' देवपोषिणी 'स्वधा' पिटपोषिणी एतादृशपूर्वोक्तमहागुणवती या त्वमसि ततस्ते तुभ्यं नमो नमस्कार एवास्तु केवलं न तु तादृश्याः परिचायां सामर्थ्यमस्तीति भावः // 1 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy