________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यनेनाङ्गाङ्गिभावमात्रबोधनादद्यभुक्वाखो व्रजतौतिवाप्रत्ययस्य व्यवधानेऽपि प्रयोगादुक्त श्रौतक्रमाविरोधेन व्यवधानेऽपि तदुपपत्तेः (1) कवचार्गलयोस्तु पाठादेव क्रमबोधनाद् दशहोढव्याहृतिहिङ्कारसामिधेनौनां दशहोतारं वदेत् पुरस्तात् सामिधेनौनां सामिधेनीरनुवक्ष्यन् व्याहतीः पुरस्ताविदधाति हित्य सामिधनीरवाहेत्युक्तानामिवसङ्कर्षणोक्तक्रमन्यायेन कवचार्गला नवार्णरात्रिसूक्तचण्डीस्तवानां क्रम उत्रेय; स्तवजपसंख्यानन्तरमपि देवीसूक्तनवार्णरहस्थानां क्रम इति ज्ञेयम् (2) // 48 // 50 // 51 // इति श्रीगुप्तवत्या देवीकवचव्याख्या प्रथमोऽध्यायः / तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौविकी। देहान्ते परमं स्थानं यत् सुरैरपि दुर्लभम् // 50 // प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः // 51 // इति देवीकवचं समाप्तम् / प्र०। परमं स्थानं मोक्षरूपं ज्ञानहारा प्राप्नोति नित्यं' नियमेन 'महामाया' सर्वकारणमायाशबलब्रह्मरूपा (1) पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः। (2) वहवस्तु रात्रिसूतोत्तरं नवार्णजपस्ततश्चण्डौस्तवस्तदुत्तरं पुन: नवार्णजपो देवीसूक्तापाठश्चेति क्रममाहुः For Private and Personal Use Only