________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थावर वत्मनाभादि, जङ्गमं मर्यादि, कृत्रिमं परस्परयोगजन्यं यथा तुल्यपरिमाणयोः मधुसर्पिषोर्योगादिजम्४ 4 ब.क. तत्र तवार्थलाभश्च विजयः सार्वकामिकः / यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् // 36 // परमैश्वर्यमतुलं प्राप्साते भूतले पुमान् / निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः // 40 // बैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् / इदन्तु देव्याः कवचं देवानामपि दुर्लभम् // 41 // यः पठेत् प्रयतो नित्यं विसन्ध्यं श्रद्धयान्वितः दैवीकला भवेत्तस्य बैलोक्ये चापराजितः // 42 // जीवेवर्षशतं साग्रमपमृत्युविवर्जितः / नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः // 43 // स्थावरं जङ्गमं चापि कृत्रिमं चापि यहिषम् / अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले // 44 // प्र.। देवीकलाचित्कला // 42 // 43 // 'अभिचाराणि' परकतानि // 44 // For Private and Personal Use Only