________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राच्या रक्षतु मामैन्द्रीत्यादौ यत्र प्रथमान्तं देवोनाम लोटः प्रथमपुरुषश्च, दक्षिण रक्षवाराहि ! इत्यादौ यत्र सम्बुध्यन्तं नाम मध्यमपुरुषथ, तत्र निर्विवाद एवाऽन्वयक्रमः तत्तदुत्तरचरणे यथायोग्यं तत्तत् क्रियापदयोब्रक० रवानुवत्तिश्च, यत्र तूर्ध्व ब्रह्माणि ! मे रक्षेदित्यत्र सम्बुद्धिः प्रथमपुरुषश्च तत्र भवती इत्यस्याध्याहारः, तुल्य। न्यायेन प्रथमान्तमध्यमपुरुषयोः सत्वेऽध्याहृतस्य त्वमित्वस्य विशेषणत्वेन प्रथमान्तपदं योजनीयम्॥१५॥१६॥१७॥ प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता। दक्षिणे रक्ष वाराहि नैर्ऋत्यां खङ्गधारिणी // 15 // प्र०।माच्यामिति। प्राच्यां दिशि स्थिता ऐन्द्रीन्द्रशक्तिमा रक्षत्वित्यर्थः प्राच्या स्थितं मामिति वा एवमुत्तरतापि शक्तिशक्तिमतोरभेदादग्निरूपादेवताग्निशक्तिरित्यर्थः। अत्र रक्षत्वित्यनुवृत्तिः / 'वाराही' वराना हन्ति सवराहो यमः आर्षः प्रयोगः तस्य शक्तिर्वाराही अणंतान् डीप। यमशक्तिरित्यर्थः दशदिक्पालप्रकरणात्, सप्तमाचन्तर्गता पा वाराही। हे वाराहि ! दक्षिणे देशे स्थिता वं मां रक्षेत्यर्थः स्थितं मामिति वा / खङ्गधारिणी, निति शक्तिरित्यर्थः रक्षत्वित्यस्य मध्ये विच्छेदादध्याहारः // 15 // For Private and Personal Use Only