________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अग्निनेति / यो नवनामानि पठेदिति शेषः पठन्तमेकमपि बहवोऽन्ये ये शरणं गताः तेषां तस्य चामिष्टनिवृत्तिरिति श्लोकद्दयार्थः // 6 // 7 // अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे। विषमे दुर्गमे चैव भयार्ताः शरणं गताः // 6 // न तेषां जायते किञ्चिदशुभं रणसङ्कटे। नापदं तस्य पश्यामि शोकदुःखभयं न हि // 7 // प्र० / इत्थं कवचपाठे ध्येयं देवतास्वरूपं प्रदश्य तत्फले अविश्वासो नैव कर्तव्य इति कैमुतिकन्यायेनाह / अग्निनेति / योऽग्निना दह्यमानो रणे शत्रुमध्ये च गत: सन् शरणं गत इति शेषः / अथ ये विषम दुर्गमे चातिसङ्गटे भयार्ता भयपीड़िताः सन्तः शरणं गताः // 6 // तेषां तस्य च भक्तिरहिनेन स्मरणमात्रेणापि तज्जन्यं भयादिकं न भवतीत्याह / न तेषामिति // 7 // For Private and Personal Use Only