________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 प्र.। स्कन्दमातेति / सनत्कुमारस्य भगवतीवीर्य्यादुद्भूतस्य स्कन्द इति संज्ञा 'भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षत' इति छान्दोग्यश्रुतेः तथा च ज्ञानिभिरपि यदुदर जन्माभिलषणीयमित्यतिशुद्धेत्यर्थः / कात्यायनौति ब्रक० देवकार्यार्थ कात्यायनाश्रमे आविर्भूता तेन कन्यावेन खीततेति कात्यायनीति नाम भगवत्याः, अस्या निरन्तरं कुमारीत्वेन पत्यनधौनतया स्वतन्त्रत्वम्। कालरात्रीति सर्वमारकस्य कालस्यापि रात्रि शिकेत्यर्थः प्रलये कालस्यापि नाशात् / कदिकारादतिन इति डीए / महागौरीति इयं च महामानिनी, नर्मोक्या पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च। सप्तमं कालरात्रीति महागौरीति चाष्टमम् // 4 // नवमं सिद्धिदा प्रोक्ता नवदुर्गाः प्रकीर्तिताः / उक्तान्येतानि नामानि ब्रह्मणैव महात्मना // 5 // शिवेन कालीत्युक्त तपसा गौरवर्णस्य सम्पादितत्वात् कालोपुगणे स्पष्टमेतत् // 4 // सिद्धिदेति। मोक्षदेत्यर्थः इतौति शेषः सिद्धिदेति नवममित्यन्वयः। नवदुर्गा इति, योगिन: कायव्यूहवदेकस्या एव दुर्गाया एते नवभेदा ये शास्त्रे ध्येयत्वेन प्रोक्तास्ते मया कीर्तिता इत्यर्थः अतएव देव्यास्तु कवचमित्येकवचनं सङ्गच्छते नानां स्वकल्पितत्वशङ्काव्युदासार्थमाह उक्तान्येतानौति 'महात्मना' सर्वज्ञेन 'ब्रह्मणैव' वेदेनैवैतान्युक्तामौत्यर्थः // 5 // For Private and Personal Use Only