________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ श्रीगणेशाय नमः / ॐ श्रीदुर्गादेव्यै नमः / ॐ सत्सम्प्रदायप्रथनातिष्ये शिष्यश्चतुर्भिः सहयोऽवतीर्णः उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्कराचार्यगुरु तमौड़े 1 ब्रह्मामार्कण्डेयं प्रति वक्ति, मार्कण्डेयस्तु क्रौष्टुकिं भागुरिं प्रति वक्तौति पक्षिरूपैट्रोणमुनिपुर्जेमिनिमुनि प्रत्युच्यत इति संवादस्थितिः / तत्र कवचाशे ब्रह्माणं प्रति मार्कण्डेयस्य प्रश्नमाह / यहुह्यमिति / सर्वस्मिन् सर्वावयवावच्छेदेन रक्षाकरं कवचमित्यर्थः लोके वर्मणः सर्वतनुत्रत्वदर्शनात् // 1 // 2 // 3 // 4 // 5 // (अथ कवचादित्रयेषु प्रदीपाख्याऽपरा व्याख्या ) मार्कण्डेय उवाच। यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ! // 1 // प्र० / ॐ नमो भगवत्यै / अङ्गहीनो यथा देही सर्वकम्मसु न क्षमः। अङ्गषट्कविहीना तु तथा सप्तशतीस्तुतिः / तस्मादेतत्पठित्वैव जपत् सप्तशती पराम् / अन्यथा शापमाप्नोति हानि चैव पदे पदे / रावणाद्याः स्तोत्रमेतदङ्गहीन निषेविरे / हता रामेण ते यस्मानाङ्गहीनं पठेत्ततः // इति कात्यायनीतन्त्रे कवचादित्रयरहस्यत्रयरूपाङ्गषटकयुतस्यैव सप्तशतीस्तोत्रस्य पठनीयत्व श्रूयते तत्प्रामाण्याच्च कवचादित्रयं रहस्थत्रयं च तन्वान्तरस्थमेवाङ्ग भवति / तत्र कवचांशे ब्रह्माएं प्रति प्रश्र' करोति मार्कण्डेयः / यगुह्यमिति / For Private and Personal Use Only