SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुःखेत्य ईमेव कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः। कांसोऽस्मोत्यच प्रतिश्लोकं पठेलक्ष्मौप्राप्तिः / मारणार्थमेवमुक्त्वा समुत्पत्येति श्लोकं पठेन्मारणोक्तातिभिः फलसिद्धिः / ज्ञानिनामपि चेतांसीति श्लोकस्य 22 जपमात्रेण सद्यो मोहनमित्यनुभवसिद्धम् / प्रतिश्लोकं तच्छोकपाठे ववश्यम् / रोगानशेषानिति श्लोकस्य प्रतिश्लोकं पाठे सकलरोगनाशः, तन्मन्त्रजपेऽपि सः / इत्युक्ता सा भगवतीगम्भीरति श्लोकस्य प्रतिश्लोकं पाठे पृथक् जपे वा विद्याप्राप्तिर्वाग्विकारनाशश्च / भगवत्याकृतं सर्वमित्यादि हादशोत्तरशताक्षरी मन्त्रः सर्वकामदः सर्वापन्निवारणश्च / देवि प्रपन्नार्त्ति हरे प्रसौदेति श्लोकस्य यथाकायं लक्षायुतसहस्रशतान्यतमजपे प्रतिश्लोक तन्मन्त्रपाठे वा सर्वापन्नित्तिः सर्वकामसिद्धिश्च / एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवलमेव वा नमस्कारकरणेऽतिशीघ्र सिद्धिः / प्रतिश्लोकं कामबीजसंपुटितस्यैकचत्वारिंशद्दिनं त्रिरावृती सर्वकामसिधिः। एकविंशतिदिनपर्यन्तमुक्तरीत्या प्रत्यहं त्रयोदशावती वशीकरणम्। मायाबोजपुटितस्य फट्पल्लवसहितस्य सप्तदिनपर्यन्तं त्रयोदशाहतो उच्चाटनसिद्धिः / तादृशस्यैव दिनचतुष्टयमेकादशावृत्ती सर्वोपद्रवनाशः / एकोनपञ्चाशद्दिनपर्यन्तं प्रतिश्लोकं लक्ष्मीबीजसंपुटितस्य पञ्चदशावतो लक्ष्मीप्राप्तिः / प्रतिश्लोकमैं बीजसंपुटितस्य शतावृत्या विद्याप्राप्तिरिति प्रत्येकमन्त्रस्य प्रयोगाः / इति सप्तशतीप्रयोगविधिः / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy