SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एव, उपसर्गोपशान्त्यर्थं त्रिराकृत पठेन्नरः। ग्रहदोषोपशान्त्यर्थं पञ्चावत्त वरानने। महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् इत्यादिना फलभेदेन संख्याभेदाननेकानुक्कोपसंहृतम् अथवा बहुनोत्तोन किमनेन वरानने। चण्ड्याः शतात्तिपाठात् सर्वाः सिध्यन्ति सिद्धय इति। इतोऽप्यधिकाः सहस्रचण्डयादयोऽन्यत्र द्रष्टव्याः। हरगौरीतन्त्रे। श्रीकामः पुत्रकामी वा सृष्टिमार्गक्रमेण तु। जपच्छ क्रादिमारभ्य शुम्भदैत्यबधावधि। आदिमारभ्यप्रजपत्पश्चाच्छेषं समापयेत / शान्त्यादिकामः सर्वत्रस्थितिमार्गक्रमेण तु। सावर्णि: सूर्य्यतनयः सावर्णिर्भविता मनुः / संकटे चान्त्यमारभ्य पश्चादादिसमापयेत् / इत्यादिकस्य कामनाभेदेन पाठवैचित्रास्य, कतिपयश्लोकमात्रपाठेन तत्तत्प्रयोगवैचिवास्य च विस्तरो डामरादितन्त्रस्थो ग्रन्थान्तरेभ्य एवावगन्तव्यः / केरलास्तु एकैकस्मिन् दिवसे एकैकमेव चरित्रं पठेदिति दिनत्रयेनकात्तिरित्येकः पक्षः / चन्द्राऽचिरभूर वेद४ करेन्दु१दसर सङ्ख्याकानध्यायात क्रमेण दिनभेदेन पठेदिति सप्तभिर्दिनैरेकात्तिरित्यन्यः पक्ष इत्याहुः / अत्र द्वितीयमेव पक्षं 'पाठोयंविप्रकार' इति सप्ताक्षर्या संग्रहन्तो बहवस्तदनुयायिनोऽनुतिष्ठन्ति च / कटपयवर्गभवैरिह पिण्डान्त्यरक्षरैरङ्काः नेजे शून्य ज्ञेयं तथा स्वर केवले कथित इति प्रसिद्धपरिभाषया पकार यकार ककारा एकस्मिन्, ठपरेफा इयोः, विशब्दश्चतुषु सङ्कोचित इति। तत्र मूलतन्त्राणित एव जानन्तु सन्त्यपि तानि तन्त्रवचनानि एकदिनेनैकावृत्त्यशक्तपराणि। अस्ति हि तादृशोऽप्यस्य प्रयोगः कात्यायनीतन्त्रे For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy