________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न कार्यः, देवीसूतोऽपि त्रेधाविभागोऽङ्ग होम न विधेयः, प्रधानविशेषस्याङ्गविधावनन्वयेन प्रति ऋचमिति पदे लक्षणाकल्पने(१)मानाभावादित्यवधेयम्। एवं सिदमन्त्रस्य क्रोड़तन्त्र / प्रत्येकावर्त्तनं देवि ! हयमेधन सम्भितम् / 20 विरावृत्त्यालभेत्कामान् पञ्चासत्यारिपून् जयेत्। काम्ये तु प्रयोग विशेषः / कात्यायनीतन्वे / एकावृत्तादिपाठानां प्रत्यहं पठतां नृणाम्। संकल्पपूर्व संपूज्य न्यस्याङ्गेषु मनून् सकृत् / पश्चाबलिप्रदानेन फलं प्राप्नोति मानवः / बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्त: कालिकापुराणे द्रष्टव्यः, तत्राशक्तानामपि तत्र व। कूष्माण्डमिक्षुदण्डञ्च मद्यमासवमेव च / एते बलिसमा प्रोक्तास्तप्तौ छागसमाः सदा। छागसमाः पञ्चविंशतिवर्षावस्थायिटप्तिजनकाः, अआविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् / तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथेति तत्र वोक्तः / वस्तुतस्तुनहिंस्यादिति निषेधस्य संकोचमन्तरणव छागसमानहप्तिसम्भवै छागबलिाह्मणैर्न कार्य एव / एवं मद्यासवे अपि न देये, वरं प्राणाः प्रगच्छन्तु ब्राह्मणो नार्पयेत् सुरामिति, ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयत इति च वृहत्सङ्गमतन्त्रवचनात्। अतएव तत्प्रतिनिधिरपि कालिकापुराण स्मर्यते / अवश्य विहितं यत्र मद्यं तत्र विजः पुनः नारिकेलजलं कांस्ये ताने वा विसृजेन्मध्विति। कात्यायनीतन्त्र (1) ऋक् पदस्य मन्वे लक्षणाकल्पने For Private and Personal Use Only