SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विनैव वाचनम् / तदभावे (1) आधारे पुस्तकस्थापनेनैव वाचनम्। सहस्राधिकस्य तु पाठसत्वेप्याधारस्थापिर पुस्तकोपर्येव वाचनमिति वचनार्थः / प्रकृतस्तोत्रस्य सहस्रान्य नत्वात्तत: कृताञ्जलिपुटः स्तुवौतचरितैरिमैरिति वैकृतिकरहस्ये विधानाच्च पाठाभावे पुस्तकस्याधारस्थापनेनैव वाचन ; कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया पठनमुत्तममिति द्रष्टव्यम् / अत्र सहस्रशब्देन द्वात्रिंशत्स्वरात्मिकस्यकैकानुष्टुप्वकल्पनेन ताटशानुष्टुप् छन्दः सहस्रं ज्ञेयमितिस्पष्ट शक्तिसङ्गमतन्त्रराजे, द्वात्रिंशतावरैर्युक्त एको ग्रन्थो निगद्यते। स एव गदितः श्लोकस्तारानेत्रसमुद्भव ! इत्यादिना, तेन गद्यात्मकमालामन्त्रेष्वप्यस्य नियमस्य प्रसरो ज्ञेयः / स्तोत्र पूर्वोत्तरभागपाठाभावे नष्फल्यादिवचनानि शक्तिसङ्गम एव द्रष्टव्यानि // ऋषिच्छन्दोदेवतादि पठेत् स्तोत्र समाहितः / यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत् / डामरे / सप्तशल्याश्चरित्र तु प्रथमे पद्मभूर्मुनिः / छन्दो गायत्रमुदितं महाकाली तु देवता // वाग्वीजं पावकस्तत्व धम्मार्थे विनियोजनम् / मध्यमस्य चरित्रस्य मुनिविष्णुरुदाहृतः // उष्णिक्छन्दो महालक्ष्मौर्देवता वीजमट्रिजा। वायुस्तत्त्वं धनप्रास्यै विनियोग उदाहृतः / उत्तमस्य चरित्रस्य ऋषिः शङ्कर ईरितः // त्रिष्टुप्छन्दो देवतास्य महापूसरस्वती। कामोवीजं रविस्तत्वं कामार्थे (1) सदभावे कण्ठस्थपाठाऽभावे। For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy