________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) यस्यैकपाठाऽवसरी नास्ति तस्य मध्यमचरित्रमात्रपठनमप्यभ्यऽनुज्ञायते रहस्याध्याये यथा 'एकेन वा अश्वोऽश्व इति सर्गाणां शापोडार मनोः क्रमः। उत्कीलने चरित्राणां मध्याद्यान्त्यमिति क्रमः / अङ्गो नवकः। 18 इषुः पञ्चमः / इभोऽष्टमः / ददाति प्रतिगृह्णाति नान्यथैषा प्रसिद्दयतीति विहितं दानप्रतिग्रहनामक महोत्कीलनं तु कोलकाध्यायव्याख्यावसरे विशदीकरिष्यते(१)। एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमं कलौ शीघ्रसिद्धिदमिदमिति सिद्धम् / एतहाचनक्रमो वाराहीतन्ते। यावन्न पूर्यतेऽध्यायस्तावन्न विरमेत्पठन् / यदि प्रमादादध्याये विरामो भवति प्रिये। पुनरध्यायमारभ्य पठेत्सवं मुहुर्मुहुः / अनुक्रमात् पठेदेव शिरःकम्पादिकं त्यजेत् / न मानसं पठेत् स्तोत्रं वाचिकन्तु प्रशस्यते // कण्ठतः पाठाभावे तु पुस्तकोपर्यापि वाचयेत् // तल्लेखनेऽपि विशेषः / न स्वयं लिखितं स्तोत्रं नाब्राह्मणलिपिं पठेत् इति / यत्तु / आधार स्थापयित्वा तु पुस्तकं वाचयेत्ततः। हस्तसंस्थापनादेव भवेदई फलं ध्र वमिति / तस्य व्यवस्थापि तत्रैव / पुस्तके वाचनं हस्ते सहस्रादधिकं यदि। ततो न्यूनस्य तु भवेहाचनं पुस्तकं विना। सहस्रान्यूनमन्त्रस्य पाठसत्वे तु पुस्तक मध्यमेन नैकेनेतरयोरिह' इति, न च तादृक् पुरुषः शापोद्धारोल्कीलने कत्तुं शक्नुयात्, अत: समग्रप्रयोग तयोरादावेकवारमवावश्यकत्वं न तु पुनः पुनः पठने इति वहवः, सर्वत्रैव नावश्यकत्वमिति नीलकण्ठः / For Private and Personal Use Only