SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) इदानीन्तनमुद्रितपुस्तकेषु क्वचिदशोत्यध्यायोत्तरं देवीमहात्मामुपलभ्यते। (2) क्रतुस्वरूपपोष्क ल्यायव यो पुराणादिषु लक्ष्मीतन्वादिषु च बहुविध उपलभ्यते तथापि मार्कण्डेयपुराणस्थ एव त्रिसप्तत्यध्यायोत्तरं षड़शीति तमाध्यायान्तमभिव्याप्तः(१) सावर्णि: सूर्य्यतनय इत्यारभ्य सावर्णिभवितामनुरित्यन्तस्त्रयोदशभिरध्यायः परिछिद्रः लोकसमूहात्मको मालामन्त्रत्वेन ग्राह्यः पूर्वोक्तडामरतन्त्रवचनात् / वाराहीतन्त्र-कात्यायनीतन्त्र-मरीचितन्त्र-हरगौरीतन्त्र-लक्ष्मीतन्त्रादीनां बहूनामैक्यकण्याच्च तस्यैवात्युत्तमत्वसिडेः तस्य पुरुषार्थत्वेन क्रत्वर्थत्वादिना (2) च पाठादिविधिमूल एव द्वादशेऽध्याये प्रदर्शयिष्यते, तन्त्रान्तरेषु च बहवो विधयः / अस्य सप्तशतीति व्यवहारस्तु न लोकसंख्यया तेषां षट्च्छतीतोऽपि न्यूनत्वात् / नापि कवचादित्रयरहस्यत्रययोर्मेलनेन / संख्याधिक्यापतेः। तस्माच्छकार सकारयोरभेदात् सप्तानां सतीनां देवीनां प्रतिपादनादेव तथा व्यवहारो नेयः। तुरीयका महाकाल्यादित्रयं तनिर्मितमिथुनत्रये देवोत्रयं चेति सप्तानामेव प्राधानिकरहस्ये प्रतिपादनादिति केचित् / तचिन्त्यम् / नन्दजारक्तदन्तीशताक्षीशाकम्भरीदर्गाभीमाभ्रामरीत्येतेषामपि विधीयते स क्रत्वर्थः / पुरुषप्रौतये विधीयमानो यः स पुरुषार्थः / बलिप्रदाने पूजायामित्यादिवाक्य सप्तशतीपाठस्य क्रत्वर्थत्वम्, न तेषां दुष्क तं किञ्चिदित्यादिभिश्च पुरुषार्थत्वम् / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy