SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अत्रेदं तत्वम् / नवार्णसप्तशतीमन्वयोः प्रधानोपसर्जनभावेन प्रकारद्वयमस्ति, तत्र नवार्णस्य प्रधानत्वं सप्तशत्यास्तदङ्गत्वमित्येक: प्रकारः। सप्तशत्याः प्रधानत्वं नवार्णस्य च तदङ्गत्वमित्यन्यः, तत्र यः साधको नवाणदीक्षां ग्वाति नवार्णमेव वा प्रधानतया स्वीकरोति तेन पूर्वोक्तविधानेन पूर्वोत्तमन्चे नवार्णदेवताः सम्पूज्य तदङ्गत्वेनाद्यन्तयोः सप्तशत्याः पाठः कर्त्तव्यः, यस्तु सप्तशती मालामन्त्र एव दीक्षितस्तामव वा प्रधानतयोररीकरोति तेन फलदायकमित्यनेन वैदिकसूक्तहयेन संपुटितायाः सप्तशत्याविधानाञ्च (1) परन्त्वन्दारम्भणीयेष्टिव(२)बवार्णस्य स्तोत्रजपप्रारम्भमात्राङ्गत्वं जपाधिकारितावच्छेदकत्वं चेति (बोध्यम्)। रहस्यं तु कोलकाध्यायस्पष्टी भविष्यति। अत्रापेक्षित: सामान्यविधिरन्ये विशेषा अपि कल्पवल्लीकारैरुता इति तत एव सर्वमवगन्तव्यम् / इति नवार्णनिर्णयः। द्वितीयस्तु चरिचयात्मिकः श्लोकसमूहरूपो मन्त्रः। स च वामनपुराणदेवीभागवतमार्कण्डेय रहस्योक्तप्रकारेण तदुक्तयन्वे नवार्णयन्त्र एव वा सप्तशती देवताः सम्पूज्य तदङ्गत्वेनाद्यन्तयोनवार्णमन्त्र जपित्वा यथाविधानं सप्तशतीपाठः कार्य इति / (2) दर्शपूर्णमासावारपस्यमाणोऽन्वारम्भणीयामित्यासलायनसूवाद दर्शपूर्णमासाभ्यां प्रागवारम्भणीयानामष्टिः क्रियते तस्याश्च पूर्वोक्तयागप्रारम्भमात्राङ्गत्वमिति वृत्तिवन्मतं, यागकर्तपुरुषसंस्कारकत्वमिति च भाष्यकन्मतमिति स्पष्ट नवमाद्यपादीयकादधिकरणे मौमांसायाम् / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy