________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) प्रयाजादयो हि दर्शपौर्णमास क्रतुस्वरूपपीष्कल्यायैव विवीयन्ते दर्शपौर्णमासफलेनैव च तेषां फलवत्वं, न न प्रधानसंख्यायामुपयुज्यत इति विशेषः। तदप्यक्तं तत्रैव चरित्रत्रयस्य ऋष्यादीनुक्वा, एवं संस्मृत्य ऋष्यादीन् ध्यात्वा पूर्वोक्तमार्गतः सार्थस्मृतिपठेच्चण्डीस्तवं स्पष्टपदाक्षर। समाप्ती तु महालक्ष्मी ध्यात्वा कत्वा षडङ्गकं जदष्टशतं मूलं देवतायै निवेदयेदित्यादि / केचित्तु मूलमन्त्रस्यजपन पुटितं चण्डीस्तव पठनिति प्रथमश्लोकं योजयन्तचरमश्लोके पुनर्विधानं संख्यामाचपरमिति मन्यमानाः सप्तशतीस्तोत्रस्यैव मूलेन संपुटिताकारी विधीयत इत्यङ्गाङ्गिभाववपरीत्यमिच्छन्ति / तदयुक्तम् / बहुषु तन्त्रेषु नवार्ण प्रवत्य तत्प्रकरण सप्तशती पाठविधानेन भवार्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात् / तत्र विद्यमानाया अपि स्तोत्रफलश्रुतेः प्रयाजफलश्रुतेर्वसन्तमेव नाम च रुन्ध इत्यस्या इवाविवक्षितार्थकत्वात् (1) / मरीचिकल्पे रात्रिसूक्त जपदादौ मध्ये चण्डीस्तवं पठेत् / प्रान्ते तु जपनीयं वै देवी सूक्तमिति क्रमः / एवं संपुटितं स्तोत्रं पूर्वोक्ता तु तेषां स्वतन्त्र किञ्चित् फलमस्ति, फलवत्सबिधावफलं तदङ्गमिति न्यायात्, तथाच यथा दर्शाद्यङ्गत्वात् तत्र वसन्तमेवर्तनाम चेत्यादिप्रयाजफलश्रुतिरविवक्षिता तथात्र नवार्णाङ्गभूतसप्तशतीस्तोत्रफलश्रुतिरप्यविवचितेति भावः / For Private and Personal Use Only