________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र वीजानीत्यनेन अन्येषामपि विन्दुयोगेनैव लेख उक्तः, लेखस्तु प्रादक्षिण्येन दक्षिणाहामान्तमिति नेयम। एवं कला जपलक्षचतुष्क तद्दशांशतः पायसाब्रेन जहुयात् पूजिते हेमरेतसि / इदमेकं पुरश्चरणम् / अथवा आखिनस्य सितपक्षे प्रारभ्याग्नितिथिं सुधीः अष्टम्यन्तं जपलक्षं दशांशं होममाचरेत् / अग्नितिथि: प्रतिपत् प्रथमां पिवते वहिदितीयां पिवते रविरित्याधुक्तोः। उभयत्र मन्वान्ते स्वाहायोजनेन होमः, तर्पणन्तु मन्त्रान्ते चण्डिका ढप्यविति योजनेन / अयमुभयविधोऽपि जपः सप्तशतीस्तोत्रेण संपुटीकृतो विधयः / तदुक्त डामरतन्त्रे / मार्कण्डेयपुराणोक्त नित्य चण्डीस्तवं पठन् पुटितं मूलमन्त्रस्य जपेनाप्नोति वाञ्छितमिति (1) / पुटितमिति पाठ क्रियाविशेषणं 'पुटितं' स्वसंपुटाकारता तथा च स्तवो यथा मूलमन्त्र जपस्य संपुटाकारो भवति तथा पठनान्मूलजपस्य यहाञ्छितं फलं तसिध्यतीत्यर्थः, ततश्च स्तवीय ऋष्यादिन्यासपूर्वकं चरित्नत्रयं पठित्वा मध्ये स्वसङ्कल्पितसङ्ख्याऽनुसारेण सहस्रादिसङ्ख्याकनवाणे जपित्वा पुनश्चण्डीस्तवं पूर्ववत् पठेत् परन्वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्र जया निवेदनादिकं कुर्यात् अयं जपोऽङ्गभूतो (1) मार्कण्डेयपुराणोक्तं चण्डौस्तवं मूलमन्त्रस्य पुटितं सम्पुटाकारो तथा स्यात्तथा पठन् सन् जपेन पाठेन वाञ्छितं फलमानोतीत्यन्वयः / For Private and Personal Use Only