________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) रुद्रयामले। सविशेषपरं साक्षात् चिच्छक्ति महिमाश्रयं, तात्पर्यगत्या तत्सर्वे निर्विशेष चिदाश्रयम / 13 तेच कात्यायनीतन्त्ररीत्या हाविंशतिरेव, तन्वान्तरेषु तिपुथ्योरधिकयोराम्नानाच्चतुर्विंशतिः, ते प्रकृतमन्त्रवर्णानामकैकस्योद्धारकाः परन्तु बहुकोशलेखनादिक्लेशसापेक्षत्वानेहतदायासः प्रदर्श्यते // एवमन्यवाप्यबानुग्रहपावतातारतम्येन सर्वमिदं स्तोत्र मन्त्राद्वारगर्भितमेव दृश्यते / उक्तञ्च वेदागमे। निर्विशेषपरा मन्त्राः सविशेषपराश्च (1) ये प्रत्यध्यायं निगूढ़ास्ते तेनेयं सर्वतः परति। ईदृशबह्वाशयेनैव 'चक्षुष्मन्तोऽनुपश्यन्ति नेतरेऽतहिदो जना' इति रहस्योक्तिद्रष्टव्येति दिक् // अयञ्च मन्त्रः, स्वतन्त्रोपास्यः सप्तशत्यङ्ग चेति, विप्रकारोपास्ति(२)मस्य केचिदाहुः वैपरीत्यात्, सप्तशत्यैव तु तद्विद्योपास्येति स्पष्टीकरिष्यतेऽनुपदमेव / उभयथापि नवार्णस्य संक्षेपेण साधनप्रकार इह वक्तव्य एवेत्युच्यते // नवाक्षरस्य ऋषयो ब्रह्मविष्णुमहेश्वराः / छन्दांस्युक्तानि मुनिभिर्गायत्रुष्णिगनुष्टुभः // देव्यः प्रोक्ता महापूर्वाः काली लक्ष्मी: सरस्वती / नन्दाशाकम्भरीभीमाः शक्तयोऽस्य मनोः स्मृता / स्याट्रक्तदन्तिकादुर्गाधामों वीजसन्ततिः। अग्नियुः सूर्यास्तत्वं (3) फलं वेदत्रयोद्भवम् // सर्वाभीष्टप्रसिध्यर्थे विनियोग उदाहृतः। ऋषिच्छन्दोदैवतानि (2) स्वतन्त्रोपासनाम् / (3) वायूरविस्तत्वमिति पाठान्तरम् / For Private and Personal Use Only