________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) ईमिति कामकलावीजम्। (2) यवर्ग लकारः शवगै क्षकारचेति कृत्वा कचटतपयशवर्गषु प्रत्येकस्मिन् पञ्चपञ्चाक्षराणोति सप्तवर्गेषु पञ्चविंशदक्षराणि भवन्ति नवभिर्भत पुनरष्टावशिष्टानि, तत्र ककारमारभ्य नवकगणनायां प्रथमनवकादिः ककारः द्वितीयनवकादिर्जकारस्तुतीयनवकादिर्धकारचतुर्थनवकादिलकारस्तमारभ्य प्रकाशः परम: शिव: हकारोऽन्त्यकलारूपो विमाख्यः प्रकीर्तितः अकारादि हकारान्तं माटकामण्डलं त्विदमित्यादिव्यवहारालकारस्य लकारऽन्तर्भावेन क्षकारस्य संयुक्तत्वेन पार्थक्याभावादूनपञ्चाशदणं माटकामण्डलमिति पक्षे व्युत्क्रमेण गणनायां चतुर्थस्वरादष्टमः शकारः रेफेकारविन्दवः पूर्ववदिति रमावीजोद्दारः // अपिच यो मनुः यकाराच्चतुर्दश ईकारो विन्दुश्चेति कामकलोहारः (1) अष्टम इति कादिनवकादिपरिभाषयैकपञ्चाशदक्षरं (2) स च क्षकारः रेफौकारविन्दुभिर्योगे नारसिंहोडारः / (3) गदतो ममेत्यत्र गकारः स्वरूपं, दतो दकारं परित्यज्य 'मम' पञ्चकद्दयं दशमो लकारः भौकारविन्दयोग वाराही क्षकारोऽष्टमः स च एकपञ्चाशवर्ण माकामण्डलमिति पक्षे सर्वान्तिमत्वादेकपञ्चाशतमः / सूर्यतनयो रेफ: मनुरौकारः विन्दुः पूर्ववत् एवं नारसिंहस्य क्षौंवौजस्योद्धारः। (3) ग्लौमिति वाराहीवीजं, लौमिति कामवीज गमिति गणपतिवीजं च / For Private and Personal Use Only