________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रौतौ स्व इत्यस्यावां नहोत्येतत् समीपे पाठेन तयोरवान्तरवाक्यरूपयोर्महावाक्यरूपैकमन्त्रत्वसम्भवात् तथा स्वीकारेण नवाई वत्वमुपपाद्यम्, इतराण्यानि तु प्रथमाध्याये हाविंशतिस्त्रयोदशे षडित्यष्टाविंशतिरवशिष्यन्ते तानि परस्पराऽव्यवधानेन चतुर्दशयुग्मरूपाण्येव संपद्यन्त इति शोकमन्वेष्व व तनिवेश इति स्थितिः, अतएवाशयेन जज्ज्वलुश्चाईमत्रनेत्युक्तम् एवं चावशिष्टा: षट्श्लोकास्तत्र तत्र दृश्यमाना बहुशोऽस्माभिः पूर्वं लिखिता अपि विसंवादभूयस्वादग्रेनिर्णयतया संप्रदायलाभोत्तरमेव विश्वसनीया इत्याशयेन श्लोकषटकं यथा सम्प्रदायमन्विष्येत्युक्तम् एतेनास्मिन् पक्षेऽप्यनध्यवसायानपायेन प्रकतिपक्ष एव निष्कम्पप्रकृतियुक्त ति // किञ्च कतव्यमपरं यच्चे त्यस्यापि क्वचिद्देशे पाठाभावदर्शनाद वियतामित्यस्य ददाम्यहमित्यन्तिरयोजनेन लोकत्वात्तावताप्य नवकोपपत्तेरनध्यवसाय एवेति ध्वनितम्। अतएवोवाचमन्वेषु वरप्रार्थनारम्भस्थदेवोक्तिद्वयमेव स्वौकत्यतीयदेवं, प्रथमाध्याये चरममृषिं प्रथमवैश्यञ्च परित्यज्य, द्वितीयाष्टमदशमाध्यायेष्वधिकत्वेन तन्वान्तरोतमृषिवाक्यमन्त्रत्रयं स्वीकत न्याय्यमपि प्रत्यक्षबचनविरोधात्तन्वयसायेण कल्पितपक्षान्तरस्य समञ्जसस्थाप्यविश्वसनीयत्वाच्च त्यक्तव्यमवेत्यपि ध्वनितं, वचनेन न्यायानामाभासौकरणादिति / यद्यल्पसंवादेनैव षड़पि श्लोका निर्धायास्तदा पञ्चमऽध्याये बुद्धिरूपेणेति मन्त्रात्परतो हौमन्त्री स्फूर्ति मेधा पदघटितौ योज्यौ, एवं सप्तमे उत्थाय च महासिंहमिति श्लोकोत्तरमकः श्लोकः 'छिद्र शिरसि For Private and Personal Use Only