________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रतूपकारकत्वेनाङ्गत्व' दृढ़यति 'जानतेति' ज्ञात्वा कर्माणि कुर्वी तेति वचनादिना ज्ञानस्य कर्माङ्गत्वेन तत्स्वरूपमजानता कतानांबल्यादिकर्मणां यह गुण्यं तदेतत्पठनश्रवणान्यतरेण निवर्तत इति भावः / प्रतीक्षिथामि गृह्णामि // १०॥'शरत्काले शारदनवरात्र 'वार्षिकी' वर्षस्य वत्सरस्यारम्भे क्रियमाणा चैत्रनवरात्र जानताऽजानता वापि बलिपूजां तथा कृताम् / प्रतीक्षिष्याम्यहं प्रौल्या वह्निहोमं तथा कृतम् // 10 // शरत्काले महापूजा क्रियते या च वार्षिकी। तस्यां ममैतन्माहात्म्य श्रुत्वा भक्तिसमन्वितः // 11 // सवाबाधाविनिर्मुक्तो धनधान्यसमन्वितः / मनुष्यो मत्प्रसादेन भविष्यति न संशयः // 12 // इत्यर्थः / चकारादाषाढ़पौषनवरात्रयोहणं तयोरपि देवीभागवतादौ प्रसिद्धत्वात्, प्रतिसंवत्सरं कुर्य्याच्छारद वार्षिकं तथेति तन्त्रान्तरे दयोरेव ग्रहणमुपलक्षणमित्यपि सुवचम्, पाषाढस्य प्रथमदिवसमेघमाश्लिष्टसानुमिति व्यवहारादिभिः वार्षिकपदं वृष्ट्यार क्रियमाणपरमित्यपि सुवचमेव, प्रतिवर्षक्रियमाणेति व्याख्यातुनातीव स्वरसा // 11 // 12 // For Private and Personal Use Only