________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) तथा च मन्त्रः / सम्वमग्नेः ! सूर्यस्य वर्चसागथाः इत्यादि यजुः सं० अ० 3 मं० 18 हे अम्ने ! व रात्री मपि देवीनान्तुरीययासहाभेदाऽविशेषेऽपि महालक्ष्मया एव प्राधानिकरहस्ये 'सर्वस्याद्या महालक्ष्मी रित्यादिना तुर्यास्थाने गणनादितरयोः देव्योरेतज्जन्यत्वस्य कथनात्, महालक्ष्मीजननस्य पार्थक्य नाकथनाच्चोपास्य देवतायास्तुरीयत्वेपि तस्यां रजः प्राधान्येनेतरगुणयोन्यग्भावेनैव भावनमावश्यकमित्याहुः / तामेव च रीतिमाश्रित्य महालक्ष्मीबोधकहल्लेखाया एव नवाणे प्रधानवीजवादथर्वशीर्षतावमात्रेण पुनः स्वातन्त्रणोद्वारस्थापि प्राधान्यध्वननार्थत्वात् सप्तशतीस्तोत्रेऽपि प्रथमश्लोके विन्दुरहिताया अपि तस्या उद्धारेण समष्टिव्यष्टिभेदाच्चत्वारोऽपि मन्त्रा उद्धृतप्राया इति वदंतष्टीकाकारास्तदुवारप्रकारं देवीचन्द्रकलास्तवे दीक्षितः प्रदर्शितमेव लिखन्ति / यथा 'सावर्णि: सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः निशामय तदुत्पत्तिं विस्तरादतो मम'। अस्यार्थः, य: यकारादष्टमो हकारः सूर्य्यतनयोऽग्निः रेफः दिनान्ते सवितेजसोऽम्नौ निक्षेपण(१)पित्रास्य धनस्य पुत्र निक्षेपदर्शनेन तत्सादृश्यादग्नी सूर्यपुत्रत्वम् / वर्णे: सहिता सवर्णा अजामेकां लोहितशक्लकष्णामिति (2) श्रुतिप्रसिद्धामूलप्रकृतिः, तस्या वाचकत्वेन पुत्रत्वोपचारादिप्रत्यये सति सूर्यस्य वर्चसा समगथाः सङ्गत इति तदर्थः। (2) प्रजामेकां लोहितशतकष्णां वद्री: प्रजाः सृजमानां सरूपाः अजो For Private and Personal Use Only