SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शने सति पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः। पिकमालभेतत्यादि पिकालम्भनचोदनावाक्येषु कोऽसौ पिकशब्दार्थो यस्यालम्भनं श्रुत्या विधीयते, न ह्यायाः कस्मिंश्चिदप्यर्थे पिकशब्दं प्रयुञ्जते, म्लेच्छास्तु पिकं कोकिलमाचक्षते ते च न प्रमाणमतो निगमनिरुक्तादिरीत्या पिकशब्दार्थः कश्चित् कल्पनीयः 'यद्यपि कोशेषु पिकशब्दोऽपि कोकिलपाये पठ्यते तथापि म्लेच्छप्रसिद्ध एव स बहुतरव्यवहृतस्तत्रोपनिवद्ध इत्यवधेयम्' शिष्टाशिष्टविरोधे विरोधाभावे निर्णायकत्वसम्भवाच्च, तन्वोतमन्वेषु भाषामियणस्यापि बहुशी दर्शनेन चरणायुधादिदैवत्यमन्त्रेषु पुंकोलीत्यादिशब्दानां कुक्कुटादिष्विव प्रवृत्तेश्चेति द्रष्टव्यम् / काल्यै लक्ष्मी सरस्वत्यै चण्डिकायै नमोऽस्तु ते अविद्यायापाशहृदयग्रन्थि विस्रस्य मुञ्च मामिति तु मन्त्रार्थसंप्रहः। रहस्यतन्त्रे तु महावाक्यस्येव जीवब्रह्मणोरभेद एव मन्त्रस्यार्थ इत्युक्तं तबिवाहे गुरुचरणावेव शरणमिति दिक् // अत्र प्राञ्चः। तिसणा शिष्टप्रसिद्धिर्बलवती विरोधाभावे तु म्लेच्छप्रसिद्धोऽप्यर्थः स्वीकार्य एव, निगमनिरुक्तादिबलेनार्थकल्पनं तु तत्रैव सम्यक् यत्र म्लेच्छप्रसिद्याप्यर्थी न भासते। एवमत्रापि शिष्टा न हि कस्मिंश्चिदप्यर्थे विच्चे पदं प्रयुञ्जते आधाद्राविड़ाश्च तं मोचनार्थकमाचक्षतेऽतः शिष्टप्रसिद्धरविरुद्धा द्राविड़ान्धप्रसिद्धिरण्यत्रार्थे प्रमाणं न तु विच्चे पदस्थान्यरीत्यार्थान्तरकल्पमं युक्तमिति। अत्र शिष्टाः संस्कृतजाः म्लेच्छाः संस्कृतातिरिक्तभाषाव्यवहारिणः / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy