________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. वह ने प्रमाणाभावस्तुल्य एवेति न किञ्चिदेतत् / अथ तन्वे समुदितसंख्यामाह, एवं त्रयोदशाध्याया होमपूजनप्तिषु / शतानि सप्तसंख्यानि तव प्रोक्तानि शैलजे॥ मकारादिनुकारातो मनुः परमदुर्लभः ससम्प्रदायविधिना ज्ञातव्यो मम बलभे // अन्यथा विफलो मन्त्रः सत्यं सत्यं मयोदितम् / होम स्वाहान्तिमा मन्त्राः पूजायान्तु नमोऽन्तिमाः, तर्पणे तर्पयाम्यन्ता ऊहनीया बुधैरिमे // 1 // तृप्तिस्तर्पणं ब्राह्मणभोजनं वा मकारादिमार्कण्ड य उवाचेत्यारभ्य नुकारान्त: सावर्णिभवितामनुरित्येतत्पर्यन्तः मकारपदेन व्यञ्जनमात्र प्राथमिक विवक्षितम् अकारस्तूच्चारणमात्रार्थोऽकारी व्यपेतो व्यञ्जनानामिति तत्तिरीय प्रातिशाख्य सूत्रमितो वा न विवक्षितः नुकारः इत्यत्रोकारस्तु विवक्षित एव तेन जगाम गहनं वनमिति मन्त्रात्यनकारार्निरामः, तथैव च महाहनुरित्यस्य मन्त्रान्तत्वाभावादेव निरासः / मन्त्रान्त्यस्य नुरित्यक्षरस्थाऽन्यस्याभावादेव नातिप्रसङ्गः तेन मनुरिति पदस्याक्षमालेत्यक्षपदस्येव प्रत्याहारपरखेनाप्ययमेव मन्त्रो मुख्यवृत्यार्थद्योतनायाह मनुरिति, (अतः) सकारादिरिति केचित्पठन्ति तच्चित्यम् // तर्पयामीति पल्लवे चण्डिकामित्यपि पर योजयन्ति, तहोमपूजनयोरपि तुल्य न्यायेन चतुर्थन्तयोजनापत्या न युक्तम् अतो यावद्दचनमेव मन्त्रान् पठतापतितांशोऽध्यहारणशत्त्वेत्यादाविव पूरयता वाक्यार्थोऽनुसन्धातव्य इत्येव युक्तम् // इति गुप्तवत्यां कात्यायनीतन्त्रस्थ अयोविंशपटलस्य व्याख्या // * // अथतसंग्रह श्लोका हाविंशतिः / ऋषिदेव्याहतेत्याद्या श्लोकास्त्रिंशच्चतुयुता देवी For Private and Personal Use Only