________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूर्य्यतां सूर्यधर्मकालादिपरिच्छेदरूपमधिकार, बैलोक्यपदेन स्वर्गस्यापि क्रोडीकारादितरदिकपालत्रयमेवाह कौवेरमिति // 2 // दैत्यदानवरक्षसामकथ्यत्वेन नि तेर्वरदायकत्वेनोपजीव्यत्वादीशानस्य च परित्यागेन विदिक्पालद्वयमेवाह तावेवेति चकारहयेन वा इयोर्ग्रहणम् // 3 // चतुर्थश्नोकोत्तराईस्थाने श्लोकचतुष्टयमधिकं पर पठन्ति 'तेषु तेष्वयधिष्णेषु लोकेषु च महीपते। स्वभृत्याः प्रथिता दैत्या अधिकार नियोजिताः(१) तावेव सूर्य्यतां तहदधिकार तथैन्दवम् / कौवेरमथ याम्यञ्च चक्राते वरुणस्य च // 2 // तावेव पवनर्डिच्च चक्रतुर्वह्निकर्म च। ततो देवा विनिर्द्रता भ्रष्टराज्याः पराजिताः // 3 // हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः। महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् // 4 // ततो देवाः सहेन्द्रेण बिभ्राणा मानुषी तनुम् / विचेरुरवनौ राजन् मनुजैः संगताः क्वशाः(२)एवं निवसतां तत्र देवानाममितौजसाम् / गतमासौन्महाराज चत्वारिंशचतुर्युगम(३)ततो देवाः सहन्ट्रेण ब्रह्मणा च समेत्य वै। दुर्गा भगवती भक्त्या संस्मरन्तो पराजिताम् (4) इति // 4 // For Private and Personal Use Only