________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ मन्त्रव्याख्या, पुरति कश्यपाददन्वामुत्पनी नमुचज्येष्ठौ शिवदत्तवरौ शुम्भनिशुम्भाविति पुराशान्तर स्थित, क्वचिदेशत्त्विहाध्याय आदित एव श्लोकत्रयमधिकं पठ्यते / पुरा शुम्भनिशुम्भाख्यावसुरी घोरदर्शनौ। अप्राप्तयौवनावेव चेरतुस्तप उत्तमम् // वर्षाणामयुतं दिव्यं राजन् विस्मापनप्रदम् / निराहारी स.टी. यतात्मानौ पुष्कर लोकपावने // ततः प्रसनो भगवान् ब्रह्मालोकपितामहः / मनोभिलषितान् कामान् 58 तयोः प्रादादनुत्तमान् // ततः शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतरित्यादि / अन्यत्र शिववरोप्यनयोरुतः। (अथ उत्तमचरिवस्य मद्र ऋषिः महासरस्वती देवता अनुष्टुप् छन्दः भीमाशक्तिः भ्रामरीबीजं सूर्यस्तत्वं महासरस्वतीप्रीत्यर्थे जपे विनियोगः।) ऋषिरुवाच। पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः। बैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्॥१॥ यत्तु शुम्भशब्दं तालव्यादिं बहवः पठन्ति तच्चिन्त्यं दक्षिणामूर्तिसंहिताविरोधात्, तत्र हि ज्वालामालिनौनित्या प्रकरणे जातवेदसेसुनवामसोममित्युगक्षरादिदेवता नामकथनावसरे जाग्रती तपिनी वेदगर्भा दहनरूपिणी सेन्दुखण्डा सुम्भहन्त्री नभश्चारिण्यनन्तरमिति पाठात् अतएव दन्त्यादित्वेनैव द्रविड़देशे पाठः संगच्छते / मदबलाश्रयादिति समाहारः अनुचिताहरणे मदो हेतुः स च विद्यामदो धनमद इत्यादिरीत्या बहुविधः बलं सैन्य शारीरं तपसच, तदुभयसाधारणो हेतुःपात्रयः शिवदत्तवररूपः दुर्गस्थानादि(वर)रूपश्च // 1 For Private and Personal Use Only