SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौगः सम्पबतमः म मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणामित्वादि एष एव परम आनन्द एष ब्रह्मलोक इत्यन्तम्। (अयमेव क्रमस्तैत्तिरोयेऽष्टमानुवाके वर्णितः स एको ब्रह्मण आनन्द' इत्यन्तम्)। श्रुतौ बहुविधो वर्णितः तेषु परमातिशायी स एको ब्रह्मण आनन्द इति परमावधित्वेनामात एव परात्परः, खात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिरिति पुराणं च / तेन आनन्दप्रधानन महाकालीस्वरूपस्य कामवीजन सम्बोधनमुक्तम् / चामुण्डाशब्दो हि मोक्षकारणीभूतनिर्विकल्पकात्तिविशेषपरः, तादर्थे चतुर्थी, चमु सेनां वियदादिसमूहरूपां डाति लड़योरक्याल्लाति आदते स्वात्मसात्कारेण नाशयतीति व्युत्पते: पृषोदरादित्वात् सर्व (1) सुस्थमित्याहुः / 'मया तवानोपहृतौ चण्डमुण्डौ महापशू' इत्यत्र पशूपदहिवचनयोः स्वारस्येनतूलमूलभेदेनाविद्यायकथनेन 'यस्माच्चण्डं चमुण्डं च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवी भविष्यसी'त्यचापि तूलमूलाविद्ययोरादानमेव गृहीत्वेति पदैनानूद्य निर्वचनकथनादखण्ड ब्रह्मविद्ये त्येव चामुण्डापदस्यार्थी वर्णित इति सूक्ष्मदृशां रहस्यम्। विच्चे इति त वित् च इति पदत्रयात्मकं बीजक्रमणोक्तानां चित्मदानन्दानां वाचक मंबुध्यन्तम्, अस्य स्त्री ई इत्यस्य हस्ते सति 'इ' है आनन्दब्रह्ममहिषि ! इत्यर्थ: वित्पदं ज्ञानपरं प्रसिद्धमेव चकारोऽपि (1) अकारस्य दीर्घत्व मूकारस्य ह्रस्वत्वं विभक्त्यलोपश्चेत्यादि। For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy