________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाविंशत्यक्षरश्चतुरक्षरः षडक्षर इति वयः,अथवा विंशत्यक्षर:षडक्षरौ हाविति मध्यममन्त्रस्य नमो हिरण्यवाहव इत्यस्येवोधयतो नमस्कारत्वसम्भवात्। अथवा द्वितीयत्तीय नमः शब्दयोः पूर्वत्र परत्नापि वारद्वयमन्वयः नमो भवाय च रुद्राय च नमः शर्वाय चेत्यादौ द्वितीयादि नमः शब्दानां काकाक्षिवदुभयत्रावृत्तिस्वीकारेण तेषामुभयतो नमस्कारात्मकत्वपक्षस्यापि स्वीकारात्, तेन हाविंशत्यक्षरषडक्षराष्टाक्षरा इति त्रयो मन्त्रा भवन्ति, नमो नम इत्येव वा नम इत्येव वा भिन्त्री मन्त्रः, मध्यमः षडक्षरोऽष्टाक्षरो वा दशाक्षरो वा चतुरक्षरी वा इतरांश एकः, वशिष्ठस्मृतौ शूद्रधर्मप्रकरणस्याभ्यनुज्ञातो नमस्कारो मत्व इति वाकास्य नम इति शब्दमानं हाक्षरो मन्त्र इति व्याख्यानदर्शनात्, अतएव नमः शब्दो हावपि वा भित्री मन्त्रावन्यः सर्व एक इत्यादि बहुव्याकुली स्यात् / यदप्यर्थभेदेन मन्त्रभेदो निरस्त इति तदपि न ललितासहस्रनामस्वपुनरुतताया एव सम्भवप्रदर्शनाय तबिरासात्, सहस्रभोजनेप्ये कस्यैव ब्राह्मणस्य दिनभेदेन हिर्मोजननिरासार्थ तथोक्तः अलाभे तु तस्याप्यङ्गोकारात्, कथमन्यथा विष्णुसहस्रनामादौ गतिः नामशब्दस्य प्रातिपदिकपरत्वेनार्थवच्छब्दरूपस्य विशिष्टस्य तस्यार्थे काऽपि शब्दभेदमात्रेणैव शब्द काप्यर्थभेदमात्रेण भेदस्य विशेष्याभावादिप्रयुक्तविशिष्टाभावरूपस्यापततो?निवारतायास्तत्रैवास्माभिः समर्थितत्वाच्च, अवतारैः पृथग्मन्त्रा इति वचनेनेवार्थभेदस्यैव प्रक्वते मन्त्रभेदकत्वेन स्पष्टमेव मन्त्राणां साजात्यध्वननाच्च, एकस्यैव त्रिराम्नानना For Private and Personal Use Only