________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) ते० सं० चतुर्थकाण्ड पञ्चमप्रपाठकस्यैकादशानुवाकेऽयं मन्त्रः समानात: 'नमो रुद्रेभ्यो ये पृथिव्यां ये त्वादिति भावः / मध्ये संख्यापिण्डकथनं तु नोकसंख्यातो मन्त्रसंख्याया अत्यन्तविप्रकर्षेण गणकबहिभ्रमनिरासार्थम. ऋषिदेववचसोनगणनमध्यायसमाप्तिभ्रमनिरासार्थम // अकैकश्लोकोड़वमन्त्रालय स्यावतारत्रयरूपप्रतिपाद्यभेदेनैव भेदं वदता मन्त्राणां शब्दानुपूर्व्यामिथो वैलक्ष्यण्याभावः सूचितः / न्यायश्च नमस्तस्या इत्यचरचतुष्टयस्यैकरूपत्वेऽपि तच्छब्दार्थानां महाकाल्यादिरूपाणां भेदात सर्वत्र सहस्त्रनामसु नानां पुनरुत्या सहस्रसंख्यान्यूनताप्रसक्ते : पुनरुक्तनानामर्थभेदवर्णनेनैव भगवत्पादादिभिर्भाष्यकार: परिहियमापताया दर्शनात्, मन्त्राणामनुसन्धानार्थत्वेन तद्भेदाभेदस्य युक्तत्वाच / पूर्वाईस्य तु प्रतिमन्त्र पूर्वभागऽनुषङ्गः चरमाक्षरचतुष्टयस्य तु प्रतिमन्त्रमन्तेऽनुषङ्गः 'यात' अग्ने प्रयाशया रजाशया हराशया तनूवर्षि डा गहरेष्ठा उग्रं वचो अपावधीस्वेषं वचो अपावधी रिति मन्त्रे प्रयाशयादित्ये प्रत्येकं पूर्वभागे यात' अग्ने इत्यस्याग्रे तनूरित्यादेश्च योगेन मन्त्रत्रयस्वरूपस्य "अनुषङ्गो वाकासमाप्ति: सर्वेषु तुल्ययोगित्वात्" (मीमां०२११४८) इत्यधिकरणे निर्णयदर्शनात्, तेनैव न्यायेन नमकचरममन्त्रस्यैकत्वेन पठितस्यापि(१)होमे पन्तरिक्षे ये दिवि येषामन वातो वर्षमिषवस्तेभ्यो दशप्राचीर्दशदक्षिणा दशप्रतीचीर्दशोदीचीर्दशोहस्तेभ्यो नमस्ते नो मृडयन्तु ते यं हिमो यवनोदेष्टि तं वो जम्भेदभः / For Private and Personal Use Only