________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. 2 न पश्यति इति चतुर्थ पादान्वय इति शन्तनुः / नन्वेते, एते सुताश्च तु निश्चयेन न प्रत्युपकाराय न भवन्ति इदं किं न पश्यसौति नागणः / श्लो. 4. / संसारस्थितिकारिण इति पा०। महामायाप्रभावन का / मोहमार्गे निपातिता मनुजा संसारस्थितिमेव कुर्वन्ति न तु ततो विरज्यन्त इति ना० / 41 / महामाया हरेश्चषा: इति पा. एषा हरमहामायेत्यन्वयः, एतदिति पाठे जगतान्वयः / श्लो० 42 / त्वमेव सन्ध्यति पाठान्तरम्। सन्ध्यायन्यस्यां संधौयेते अहोरात्रौ वाऽस्यां सा सध्या पितृप्रसूरिति शन्तनुः त्वमेव मा' सा त्वमेवेति पूर्वान्वयोति नागेशः / लो० 56 / त्वं देवि ! जननी परा। इत्यत्र वेद जननी, देवजननौति वा पाठान्तरम् तत्र वेदानां जननी गायत्री, देवानां जननी अदितिस्तत्स्वरूपावेत्यर्थः / प्रकृतपाठे हे देवि! त्वं परा उत्कृष्टा जननी सर्वजनकत्वात्। सर्ववाग् जननी परा चेति नागेशः / श्लो० 56 / परा पराणामिति पाठान्तरम् / हे देवि ! त्वमेव पराणां श्रेष्ठानां मध्ये परा उत्कृष्टाऽतएव परमत्यादि शन्तनुः / नागेशस्तु परति पश्यन्ती-मध्यमावैखरीणामुपलक्षणम्, परावीजरूपा वा, पराणाम् उत्कृष्टानां प्रधानं त्वमेव यतस्त्वं परमेखरौत्याह / श्लो०६३ / स्तूयसे मया इति पाठान्तरम् / श्लो०६४। जगत्यात्यत्ति यो जगत् इति पाठान्तरम् / अर्थस्तु समान एव श्लो०६५। क्रोधरक्तेक्षणी हन्तं ब्रह्माणमिति पाठान्तरम् / श्लो०७२ / इति प्रथमाध्याये पाठान्तराणि / ) For Private and Personal Use Only