________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवानीभेदेन विविधो भूत्वा जगतः सृष्टिस्थितिलयतिरोधानानुग्रहात्मककृत्यपञ्चककर्त्ताभूत्, जवाकुसमस्यैव रञ्जनकर्त्तत्वेऽपि रागाश्रयत्वेन मात्रा स्फटिकस्यैव शुद्धस्यापि धर्मिणः सानिध्यमात्रेण कर्तुत्वव्यवहारः / तहतो धर्मोऽपि न जड़ो न जीवः अपि तु 'चितिः स्वतन्त्रा विश्वसिदिहेतु'रित्यादिशक्तिसूत्रोक्त स्वरूपं ब्रह्मवेत्युपनिषसिद्धान्त इति श्लोकद्दयस्य पिण्डितो निश्चयोतितोऽर्थः / अस्मदादीनां हि स्रष्टव्यपदार्थालोचनामिका ज्ञानेच्छावत्तिरूपा वृत्तिर्घटमहं जानामीत्यादि(१)भाविघटविशयकज्ञानाद्याकारभेदेन परस्परविलक्षणा त्रिविधास्वयं जड़ाधना, जड़स्य धनस्यान्तःकरणस्य परिणामो, घनानामेव जड़ानां विषयीकाररूपसम्बन्धेनापि घनेनैव विशिष्टा, स्वयमपि परिच्छिना, परिचारैरपि परिच्छिन्नरव युक्ता, परिच्छिन्नजड़पनाहङ्कारसम्बन्धेनाध्याससहिता च / शुद्धब्रह्मणः प्राथमिकी वीक्षा तु सर्वांश कोमलत्वात् वृत्तिरूपाऽप्यास्माकीनत्तिधर्मराहित्यादत्यन्तविलक्षणा सति ब्रह्मकोटावेव निविशते इति भावः // तदेतदुक्तं वृहहासिष्ठे उत्पत्तिप्रकरण हादशे सर्गे मृध्यारम्भकालिकं ब्रह्मसत्तामात्र प्रक्रम्य “तदात्मनि स्वयं किञ्चिच्चे त्यतामधिगच्छति अरहीतात्मक संविदह (1) आदिशब्देन घटमहमिच्छामि घटमहं करोमौत्येतयोरिच्छाकृत्योराकारसंग्रहः तत्रापि घटपटाद्यनन्सविषयभेदेन परस्परवैलक्षण्यम् / For Private and Personal Use Only