________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्शनपूर्वकम् / भाविनामार्थकलन: किञ्चिदुहितरूपकं आकाशादणु शुद्धं च सर्वस्मिन् भाति बोधनम्। ततः सा परमासत्ता सचेतश्चेतनोन्मुखी चित्रामयोग्या भवति किञ्चिल्लभ्यतया तदा। घनसंवेदना पश्चाद्भावि जीवादिनामिका सम्भवत्याप्तकलना यदोद्यति परं पदम्" इत्यादि। तट्टीकायामपि, सन्मात्रस्य ब्रह्मण: 'स ईक्षत लोकाबुसृजा' इति श्रुतिसिडमीक्षणभावं दर्शयति तदिति त्रिभि: 'अग्रहीतात्मक' अहङ्काराध्यासरहितं अतएव संविमात्रेणाहताविमर्श: 'सर्वस्मिबपि' सृज्यविशयीभाविनामरूपानुसन्धानांशऽपि 'किञ्चिदेव संपृक्तमिव अतएव 'आकाशादखेव' न तु घनं 'अतएव' शुद्धमेव धनमालिन्याभावाद्ब्रह्मैव 'चेत्यता' गच्छतीव सती 'सचेतश्चेतना' ईक्षणा वृत्यभिव्यक्तचैतन्यं त दुमुखी' तत्प्रधाना सती 'किञ्चिल्लभ्यतया' वाक्यविषयधर्मलाभेन तदा 'चित्रामयोग्या' . भवतीत्यर्थ: पश्चात्तु सैव वृत्तिश्चिराहत्या घनीभूता सम्यगेव 'आत्तकलना' सूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती 'परं पदमपरिच्छिनभूमानन्दात्मभावं यदा विस्मरति तदा भाविहिरण्यगर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह धनेति। ईदृशेक्षणाद्यात्मकचण्डी चिदादिनामकसमष्टिवृत्तिरूपधर्मामकशुद्ध ब्रह्माभित्रानां जानकाक्रियाणां तिमणां व्यष्टीनां महासरस्वतीमहाकाली महालक्ष्मीरिति प्रतिनिमित्तलक्षण्येन नामरूपान्तराणि / तादृशनामरूपविशिष्टदेवतात्रयसमष्टिवं प्रकृत्तिनिमित्तीकृत्य धर्मे चण्डिकेति व्यवहारः। एवं व्यष्टीनां वामा ज्येष्ठाऽतिरौद्रीति, पश्यन्ती मध्यमा वैखरीति, ब्रह्माविष्णुरुद्र इति रूपभेदेन, समष्टेरपि अम्बिका शान्ता For Private and Personal Use Only