________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'लघु' क्षिप्रं, बोधश्चेति भावश्चेति क्वचित्पाठः // 6 // एवं स्तुतेति / पत्रेदं रहस्यम् / चरित्रत्रयदेवता महाकालो-महालक्ष्मी-महासरस्वत्यः क्रमेण वहिस्तमोरज:सत्वरूपा इवान्तः सत्वरजस्तमोरूपा अपोति सात्विकादिपदेनैवासां क्रमेण व्यपदेश: दैत्यसंहारकर्तृत्वमपि सात्विकादिरूपेणैव प्रतएव चण्डिकाया महिषासुरहननकाले मधुपानेनारक्तता, चण्डशुम्भादिहनने मषीवर्णता च वक्ष्यते, तयारीत्या तामस्यपि योगनिद्रा प्रबोधच्च जगत्खामी नीयतामच्युतो लघु / बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥ 68 // ऋषिरुवाच। एवं स्तुता तदा देवी तामसी तव वेधसा / विणोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ॥६६॥ नेवा-ऽऽस्य-नासिका-बाहु-हृदयेभ्यस्तथोरसः / निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः // 70 // उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः। एकावे हि शयनात् तत: स ददृशे च तौ॥७१॥ स्वान्तःस्थितसत्वमात्रस्य स्वस्या एव रूपान्तरस्यावशेषाय वहिर्व्याप्त' तमोरूपं निःसारितवतीत्याह, नेवास्येति / एतेन देव्या एव तन्त्रेषु मधुकैटभहन्तृत्वव्यवहार उपपद्यते, पुरुषाभ्यां सह बाहुयुद्धयोग्येन पौरुषरूपेणैव तौ हतवतीति स्थितिः // 68 // 70 // प्रवतकर्मानुगुणं विशेष्यमाह, जनार्दन इति // 71 // For Private and Personal Use Only