________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इयं च योगनिद्राप्रथमचरित्रदेवतामहाकाल्येव तमोगुणप्रधानत्वात्, पूर्व स्तुतत्यनेन तामसीपरत्वेन स्तुतेरुपसंहाराच्च॥५१-५४॥ एकव शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले, भोगे भवानी पुरुषेषु विष्णुः तदा द्वावमुरौ घोरौ विख्यातौ मधुकैटभौ। विष्णुकर्णमलोद्भूतो हन्तं ब्रह्माणमुद्यती // 51 // स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः / दृष्ट्वा तावसुरी चोग्रौ प्रसुप्तञ्च जनाईनम् // 52 // तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः / विबोधनार्थाय हरे हरिनेत्र कृतालयाम् // 53 // विश्वेश्वरौं जगद्धात्री स्थितिसंहारकारिणीम् / निद्रां भगवती विष्णोरतुलां तेजसः प्रभुः // 54 // ब्रह्मोवाच / त्वं स्वाहा त्वं खधा वं हि वषट्कार: स्वरात्मिका / सुधा बमक्षरे निये विधा मावात्मिकास्थिता // 55 // कोपेषु काली समरेषु दुर्गेति वचनादिभिर्विष्णुकालिकयोरेकमूर्त्तित्वान्मधुकैटभहननमपि तेन वेषेण कालिकयैव कार्यमित्याशयेन तामेव स्तौति त्वं स्वाईत्यादिना। स्वाहा देवगणानां दृप्तिकरी, स्वधा पितृगणानां, For Private and Personal Use Only