SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org लायनीये Acharya Shri Kailassagarsuri Gyanmandir रक्षोभ्य इत्युत्तरतः ॥ १० ॥ [१.२.११] सर्वासामुत्तरतः ॥ १० ॥ स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् ॥ ११ ॥ ॥ २ ॥ 'यज्ञोपवीतशौच च' [श्र०९।१।१०] इति यत्र प्राचीनावीतित्वं निवोतित्वं वाऽऽचार्येण न विहितं तत्र यज्ञोपवीतित्वं प्राप्तं । श्रतः प्राचीनावीतित्वं विधीयते । निनयेदिति वचनं क्रियान्तरज्ञापनार्थं । तेन बलिहरणमिदं न भवति । किमेवं सिध्यति स्वाहाकारो न भवति । ननु स्वधाकारः प्रदानार्थः स्वाहाकारञ्च प्रदानार्थ इत्युभयेोरेकका - र्यकारित्वेन समानजातीयत्वात् स्वधाकारस्तस्य बाधको भवति । नैतदेवं । *समानार्थयोः समुच्चयो दृश्यते । यथा सोमाय पितृमते खधा नम इति स्वधानमस्कारयोः तददचाप्याशङ्का स्यात् । का पुनरियं क्रिया । पिढयज्ञः । एवं च कृत्वा पितृयज्ञार्थं ब्राह्मणभोजनमन्वहं न कर्त्तव्यमिति सिद्धं । शेषग्रहणमानन्तयर्थं । असत्यस्मिन् क्रियान्तरत्वात्कालान्तरे वा स्यात् । एवमुक्तं वैश्वदेवं। यस्मिन् कस्मिंश्वि वैश्वदेवं कार्यं न गृह्य एवेति नियमः । कुतः । प्रानिधानादिवाहाग्नेः । यदि हि तत्राभिप्रेतमभविष्यत् तमेव पूर्वं ब्रूयात् । पाणिना च वैश्वदेवं कार्य न पात्रान्तरेण शक्यत्वात् ॥ इति प्रथमे द्वितीया कण्डिका ॥ ० ॥ * समानार्थयोः स्थाने प्रदानार्थयोरिति सो० का० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy