________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २.६]
एह्यसूत्रे ।
इन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशाम्॥५॥
दिग्गहणेन चतम्रो दिशो ग्रान्ते। यत्रैव प्रधानदेवतास्तत्रैव पुरुषैर्भवितव्यमिति कृत्वा प्रधानानामुत्तरतः पुरुषेभ्यो बलिं हरेत् ॥ ५ ॥
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ ६ ॥ दिग्देवतानां मध्ये पूर्वोके अन्तराले ॥ ६ ॥
विश्वेभ्यो देवेभ्यः ॥ ७॥ मध्य एव ॥ ७ ॥ सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा ॥८॥
मध्य एव । दिवाग्रहणं ज्ञापनार्थ क्रियते । तेन वैश्वदेवस्य प्रातरारम्भणं भवति। इतरथा सायम्प्रातरूपदेशात् सायमुपक्रमः स्वात् अग्निहोत्रवत्। तचानिटं। अतो दिवाग्रहणं । तेनाग्नये खाइति सायं जुहुयादित्यत्र सायमुपक्रमः ॥ ८ ॥
नक्तञ्चारिभ्य इति नक्तम् ॥६॥ दिवाचारिभ्य इत्यस्य स्थाने नत चारिभ्य इति नतं भवति ॥ ६ ॥
For Private and Personal Use Only