________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीय
[१. २. ४]
इत्यादि। सोमाय वनस्पतय *इत्येको मन्त्रः । वनस्पतेर्गणत्वेन दृष्टत्वात्। 'अग्निर्टहपतिः सेोमो वनस्पतिः' इति। समाचारश्चैवमेव। इत्युको देवयज्ञः॥ २॥
स्वाहेत्यथ बलिहरणम् ॥३॥
अप्रेषितयागत्वादेव स्वाहाकारे सिद्धे स्वाहाकारवचनं ज्ञापनार्थ। एतज्ञाप्यते । अन्यत्र बलिहरणे स्वाहाकारो न भवतीति । तेन चैत्यबलो नमस्कारो भवति। अथशब्द आनन्तयार्थः। इतरथा कर्मान्तरत्वात् कालान्तरे वा बलिहरणं स्यात् । ब्रह्मयज्ञस्वेषां पूर्वी वा स्यात्। उत्तरो वा। मनुष्य यज्ञरतुत्तर एव। 'वैश्नदेवं कृत्वा अतिथिमाकाक्षेद्' इतिवचनात् ॥ ३ ॥
एताभ्यश्चैव देवताभ्योऽय ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यः॥ ४ ॥
एताभ्यः प्रागुताभ्यो देवताभ्यश्चकारादच्यमाणदेवताभ्यश्च । बलिहरणं कार्य। एवकारः पोनर्वाचिकः। भूमी प्रामस्थां पति करोति। ब्रह्मणे स्वाहेति हुत्वाऽन्तरालमुक्काऽग्य इत्यादिभिर्जुहाति। ग्टहदेवताभ्य इति मन्त्रः न विधायकः। तथा वास्तुदेवताभ्य इति च। यदि हि विधायकः स्यात् उभयवचनमपार्थकं स्यात्। ग्टहमेव हि वास्वित्युच्यते ॥ ४ ॥
* इत्येकाहुतिरिति का. पु० पाठः ।
For Private and Personal Use Only