________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २.२]
सह्य सूत्रे।
यथा चतुरश्चतुरो मुटीन् निर्वपतीत्युक्त इविष्यमेव प्रतीयते मिळू च तद्भवति। अनारभ्यमाणे दोषः। अनादिष्टद्रव्यत्वादाज्यं प्रमज्येत। श्राज्यशेषेण वाऽन नि हृदये इति ब्रुवन् ज्ञापयति यत्र द्रव्यं नादिश्यते तत्राज्येन होम इति। तस्मात्तन्नित्त्यर्थं मिद्धग्रहणमारभ्यं तईि हविय्यग्रहणमपार्थकं । नन्वन्नमस्कारत्वादहविथ्यस्यापि स्यात् । अपूर्वार्थत्वाच न स्यात्। तईि तन्त्रनिवृत्त्वर्थ हविग्रहणं । कथं हविय्यस्य होम एव स्यात् न तन्त्रमिति। ननु उत्तरत्र विधानान्न तन्त्रं प्राप्नोतीति च शङ्का न कार्या। तर्हि विवाहेऽपि तन्वनिवृत्तिप्रसङ्गात् । तत्र चेव्यते तन्त्रं। होममन्वानाह ॥ १ ॥
अग्निहोत्रदेवताभ्यः सोमाय वनस्पतये ऽग्नीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे ॥२॥
अग्निहोत्रदेवताभ्य इति विधायको न मन्त्रः। तथाऽर्थप्रतोतेः। अग्निहोत्रशब्दोऽयं द्रव्ये कर्मणि च वर्तते। तत्राग्निहोत्रदेवताभ्य इति किं द्रव्यदेवता ग्रह्यन्ते उत कर्मदेवता इति संशयः । का: पुनर्रव्यदेवताः । ‘रुद्राद्या रौद्रगविमत्' इत्याद्याः श्रुतावुनास्ता न सम्भवन्ति । भनिमात्रत्वात्। तेन कर्मदेवता ग्राह्यन्ते । एवञ्चेदग्निर्सहपतिरित्येवमाद्या अपि प्राप्नुवन्तोति शङ्का न कार्या। तासामनित्यत्वात्। कास्तईि। अग्निः सूर्यः प्रजापतिश्चोभयत्र । श्रुतौ चास्य सम्यगुपदेशः। 'तस्य वा एतस्याग्निहोत्रस्य'
For Private and Personal Use Only