________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनोये
[१. २. १]
यति सोऽपि स्वध्वरः शोभनयज्ञः । तस्येदर्वन्तो रहयन्तः' इत्यादि पाकयज्ञानामर्थवादः । नमस्कारेणापि खलु प्रीतिरस्ति । कुतः। न वै देवा नमस्कारमति । अतिरतिक्रमणे। देवा हि नमस्कार नातिकामन्ति । तमप्याह्रियन्त इत्यर्थः । किमिति नातिकामन्ति । यज्ञो वै नमः। नमस्कारोऽपि यज्ञ इत्यर्थः। इति हि ब्राह्मणं भवति। इतिशब्दो निर्दिष्टपरामर्शी। समिधमेवेत्यादि एवमन्तं ब्राह्मणं भवतीत्यर्थः ॥ ५॥
इति प्रथमे प्रथमा कण्डिका ।। .॥
अथ सायंप्रातःसिद्धस्य हविष्यस्य जहयात् ॥१॥
अथशब्दो विशेष प्रक्रियार्थः। अथ रह्याण्युच्यन्त इति । अत्र मायम्प्रातःशब्दी लक्षणया अहोरात्रवचनौ । कुत एतत्। स्मृतिदर्शनात्। 'मायम्प्रातरशनान्यभिपूजयेत्' इति। अशनञ्च मध्यान्हे विहितं। 'पूर्वाह्ने देवानां मध्यन्दिने मनुष्याण अपराह्ने पितॄणां' इति। वैश्वदेवानन्तरं आतिथ्यादेविधानाच्च । सिद्धं पक्कं। सिद्धस्येति दधः पयसश्च माभूत् । इविष्यस्येति *चणककोट्रवादीनां माभूत्। कथमहविष्यस्य प्राप्नुयात्। अन्नसंस्कारत्वात्। उभयमपि तर्हि नारभ्यं । दर्शनादेव सिद्धस्य हविय्यस्य च भविष्यति ।
* वरककोद इत्यादि का० पु. पाठः । + कथं वा हवि. इति का. पु. समीचीनः पाठः।
For Private and Personal Use Only