________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१.५]
ग्राह्यसूत्रे।
देनेति । विद्ययैवेत्यादि। विद्ययापि प्रीतिर्दैवतस्यास्त्येवेत्यर्थः । द्रव्यत्यागाभावेऽपि वेदस्याध्ययनमात्रेणापि प्रीतिरस्तोत्यभिप्रायः । विद्यया प्रीतिरस्तोत्येतत् द्रढयितुं तस्मिन्नर्थ मन्त्रान्तरत्वं साक्षित्वेन अतिदर्शयति। तदेतदित्यादि । तदेतदर्थरूपं पश्यन् *ऋषिमन्त्रदृष्टा उवाच। अगोरुधायेत्यादि। अस्मिन् सूत्रे स्तोतारः प्रत्यक्षीकृताः । ऎवम्भूतायेन्द्राय हे सखायो वचो वोचत। घृतात् खादीयो मधुनश्चेति कृत्वेति। वच एवेत्यनेन तु तात्पर्यकथनपरेण ब्राह्मणेन देवताः प्रत्यक्षीकृताः स्तूयन्ते। हे इन्द्र इदं मे मम वच एव घृताच्च मधुनश्च वादीयः। अमिद्धत्वात् स्वादीयस्त्वस्य प्रार्थनेयमिति दर्शयति। खादीयोऽस्वित्यादिना । स्वादोयोऽस्त्वित्येवामी माक्षित्वेन ऋषिराहेत्यर्थः । अतोऽस्ति प्रीतिः। एवमध्ययनं रसात् स्वादुतरमित्युक्त। मांसादपि खादुतरमिति मन्त्रान्तरं दर्शयति । श्रा ते अग्न इत्यादि । अस्य मन्त्रस्य तात्पर्यकथनं ब्राह्मणं। एत एवेत्यादि । हे अग्ने एत एव मे मत्सम्बन्धिनः। अत एव ते तव उक्षाणश्चषभाश्च वशाश्च भवन्ति। भवन्त्वित्यर्थः। भवन्तीति लिडर्थ लेट। [पा ३।४] विकरणसिप्रत्ययाडागमेकारलोपास्तु व्यवस्थितविकल्पवान्न भवन्ति । के मत्सम्बन्धिन इति चेत् । ये इमं स्वाध्यायमधीयत इति। अस्य मन्त्रस्य तात्पर्य उक्षादिमामेन तव यावती प्रीतिस्तावतो तव विद्ययापि भवत्वित्यर्थः। उत्तरार्द्धर्चतात्पर्यकथनं ब्राह्मणं। यो नमसा स्वध्वर इति नमस्कारेणेत्यादि। नमस्कारेणापि योऽग्निम
* ऋषिरप्य वाचति का० पु० पाठः। + सूत्रे इत्यत्र मन्त्र इति का० पु. पाठः।
For Private and Personal Use Only