________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३. १]
ग्टह्यसूत्रे।
अथ खलु यत्र क्व च होष्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षल्लेखा उदगायतां पश्चात्यागायते नानान्तयास्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्तादक्षिणतः पश्चादुत्तरत इत्युदकसंस्थन्तूष्णीं पर्युक्षणम् ॥ १ ॥
अथशब्दोऽधिकारार्थः । इत उत्तरं यानि वक्ष्यन्ते तेषामेवायं होमविधिर्भवतीति । तेन वैश्वदेवः कचग्रहणेन प्राण्यमाणो होय्यधर्मो न भवति । खलुशब्दोऽपार्थकः। मिताक्षरेश्चनर्थक इति वचनात् । यत्र-कच-ग्रहणमहरहः क्रियान्तरविध्याशङ्कानिवृत्त्य)। यत्र क्व च होय्यनस्यादिति होममनूद्य धर्मविधिः । तर्हि यत्रेटवास्तु क्वच-ग्रहणमनर्थकं । न. तन्त्रप्रतिषेधविषयेऽप्यौपासनाग्निपरिचरणे एतत्सूत्रविहितपरिसमूहनपरिस्तरणपर्युक्षणनां प्राप्यर्थ क्वच-ग्रहणं। लेखादयो न सन्तीति वक्ष्यामः। दूषुमात्रा मात्रा यस्य स्थण्डिलस्य तदिषुमात्र। एकस्य मात्राशब्दस्य लोपः। उष्ट्रमुखवत्। तच्च तदवरञ्च दृषुमानावरं। अवरं निकृष्टमित्यर्थः । सर्वतः सर्वासु दिक्षु। चतसृष्वित्यर्थः । चतसृष्वपि दिक्षु दूषुमाचप्रमाणं ततोऽधिकं वा चतुरस्रं स्थण्डिलं गोमयेनोपलिप्य षट् लेखा उल्लिखेत् । षड्-ग्रहणं कथं । षट्स्वपि लेखासु अग्नेः स्थापनं यथा स्यादिति केनचिद्यज्ञियेन शकलेन स्थण्डिलमध्ये उदग्दीघीं प्रादेशमात्रां न्यूनां वा लेखामग्नि प्रतिष्ठापनदेशस्य पश्चालिखेत्।
For Private and Personal Use Only