________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३. २]
नात्यसंसर्गार्थं । तस्या अन्तयोनीना असंसृष्टे प्रागायते लेखे लिखेत्। ततस्तिस्त्रो मध्ये संसृष्टाः प्रागायताः लेखाः लिखेत् । शकलं तत्रैव निधाय । स्थण्डिलमभ्युच्य शकलं निरस्याप उपस्पृश्याभ्यात्ममग्निं प्रतिष्ठाप्यान्वादधाति । ततोऽतिदेशप्राप्तं बर्हिष दूमस्य च सन्नहनं करोति । श्रन्वाधानं नाम कमीङ्गत्वेन इयेोस्तिसृणां समिधां अभ्याधानं । ततः परिसमूह्य परिसमूहनं नामाऽग्नेः समन्तात् परिमार्जनं । तच्चाग्निहोचवत् । ततः परिस्तीर्य । पुरस्ताद्दक्षिणत: पश्चादुत्तरत इत्येवं । उदक्संस्थवचनं एकैकस्यां दिश्युदक्संस्थताप्राप्यर्थं । अथवा दूत्युदक्संस्थमिति पृथग्योगः । निपातानामनेकार्थत्वादितिशब्द एवम्प्रकारे । एवंविधं यत्कर्म सर्वदिक्सम्बद्धं परिसमूहनपर्युक्षणशिरस्त्रिरुन्दनादिकं तदपराजितायां दिभ्यारभ्योदक्संस्थं कार्यमित्यर्थः। ततस्तूष्णीं पर्युक्षणं करोति । तूष्णीं ग्रहणं मन्त्रवर्जमन्ये धर्म अग्निहोत्रदृष्टा भवन्तीत्येवमर्थं । त्रिस्त्रिरेकैकं पुनः पुनरुदकमादायादायान्ते च कर्मणां पर्युतम् । उभयत्र च परिसमूहनपूर्वकत्वमित्यत्र पुनः परिसमूहनविधानं मध्ये परिस्तरणसिद्ध्यर्थम् । एतस्मिन् काले उत्तरतोऽग्नेरपः प्रणयति चमसेन कांस्येन मृण्मयेन वा । उत्तरत्र निनयनदर्शनात् ॥ ९ ॥
पविचाभ्यामाज्यस्यात्पवनम् ॥ २ ॥
कार्यमिति शेषः । अथ किंलक्षणे पवित्रे कथं वा उत्पवनं
कार्यमित्येतद्वयं निर्णेतुमाह ॥ २ ॥
For Private and Personal Use Only