________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एह्यसूत्र।
[१. ३. ३] मृह्यसूत्रे।
अप्रच्छिन्नाग्रावनन्तर्गभी प्रादेशमात्रौ कुशा नानातयार्थहीत्वाङ्गुष्ठापकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्युनाम्यच्छिद्रण पवित्रेण वसाः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण हिस्तूष्णीम् ॥३॥
प्रशब्दः सूक्ष्मच्छिन्नाग्रयोरनिवृत्त्यर्थः । न विद्यते अन्तर्मध्ये गर्मी ययोस्ती तथोकी । प्रादेशमात्री कुशौ । एवंलक्षणयुको कुशा पवित्रसंज्ञो। नानेत्यसमाथें। पवित्रे अन्तयोरमंस्पृष्टे अङ्गुठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां रहीत्वा प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीं। प्रागितिपाठः कार्यः। प्राङिति पुल्लिङ्गपाठे तु कर्तुः प्राङ्मुखत्वं स्यात् । तच्च परिभाषासिद्धं। ननु कर्मणश्चापि प्रात्वं तत एव सिद्धं। सत्यं । तत्तु शास्त्रान्तरदृष्टं पुनराहारनिवृत्त्यर्थं। तेन ज्ञायते शास्त्रान्तरदृष्टानामविरोधिनां पात्रासादनादीनामिच्छातः क्रियेति।
इत्थं हि शास्त्रान्तरे दृष्टं। परिस्तरणकाले उत्तरताऽग्ने कांश्चिद्दर्भानास्तीर्य ब्रह्मवत्म कर्मसु दक्षिणतोऽग्नेरपि कांश्चिदीनास्तीर्य ततोऽग्निं पर्युक्ष्य उदगग्ने षु इन्द न्यञ्चि पात्राणि प्रयुनक्ति उभाभ्यां पाणिभ्यां। अयं पात्रासादनक्रमः। 'प्रोक्षणपात्रमथ स्वयुक्तं पात्रमपां प्रणयनाय विशिष्टम् ।
भाजनमाज्यहविग्रहणाथै विधामथो परिमादय दीन्' ॥ इति। आज्यहोमेषु दर्वोमत्सु तु कर्मवयं क्रमः ।
For Private and Personal Use Only