________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
[१. ३. ३]
स्थालीञ्चरोः प्रोक्षणभाजनञ्च दर्वोवो सादय दर्विमे । पाचं प्रणीतार्थमथाज्यपात्रमिमं क्रमेण क्रमवित् कुशेश्च ॥ ततेाऽप्रच्छिन्नाग्रात्रित्युक्रलक्षणे पवित्रे ग्टहीत्वा प्रोक्षणपाचे निधायाप श्रसिच्य ताभ्यां त्रिरुत्पूय उत्तानानि पात्राणि कृत्वा विस्रस्येमं सर्वाणि पात्राणि प्रोक्षति । ततः प्रणीता - पात्रं प्रत्यगनेनिधाय तस्मिंस्ते पवित्रे अन्तर्द्धायाद्भिः पूरयित्वा गन्धादि प्रक्षिप्य पाणिभ्यां पात्रं नासिकान्तमुद्धृत्योत्तरतोऽग्निं दर्भेषु निधाय दर्भैः प्रच्छाद्यासादयेदिति । श्राचार्यस्य तु पूर्णपात्रं कार्यं । अन्यस्य तु करणेऽभ्युदयः। अकरणे न प्रत्यवाय इत्याशयः ।
इत्थं चान्यशास्त्रे दृष्टं। पूर्णपात्र निधानानन्तरं तत्रस्थे पवित्रे ग्टहीत्वाज्यस्थाल्यां निधायाज्यमामिच्योदगङ्गारानपोह्य तेष्वधिश्रित्याज्यमवज्वलयेत् । द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्याज्ये प्रत्यस्य पुनचलता तेनैवाल्मुकेन चिः परिहरेत् येनावज्वलनं कृतं । ततः शनैः उदगुदास्याङ्गारानतिसृज्य तत्रस्थमेवाज्यमुत्पूय पवित्रे त्वद्भिः प्रोच्या नौ विनिक्षिपेदिति । आचार्यस्योत्पवनं नित्यम् । अन्यत्याक्षिकं ।
पूर्ववदित्याकूतं स्रुक्स्स्रुवसंमार्जनमप्यन्यशास्त्रे दृष्टं । तस्यापीच्छातः क्रिया । अनयोः सम्मार्ग उच्यते । दक्षिणेन हस्तेनाभी ग्टहीत्वा सव्येन कांश्चिदभीनादाय सहैवाग्नौ प्रताप्य जुहं निधाय दक्षिणेन पाणिना स्रुवस्य विलं दर्भाग्रैर्विलादारभ्य प्रागपवर्गं त्रिः संमृज्याधस्ताद ग्रेणैवाग्रमभ्यात्मन्त्रिः संमार्ष्टि । ततो दर्भाणां मूलेन दण्डस्याधस्तात् विलपृष्ठादारभ्य यावदुपरिष्टाद्विलं तावत्रिः मंमार्ष्टि । अथाऽद्भिः प्रोच्य स्रुवं निष्टप्याज्यस्थाच्यां निधायोदक्स्पृष्टैरेव
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
For Private and Personal Use Only