________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ३. ४]
गृह्यसूत्रे। दर्भेर्जुहूं चैवमेव समार्टि । ततो दीनभिः प्रक्षाल्यानावनुप्रहरेत् । एवं संमार्गः।
विष्टकृदन्ते चेनसनहनानामग्नौ प्रासनं दृष्टम् । अन्यदपि यदस्मच्छास्त्राऽविरुद्धं परशास्त्रे दृष्टन्तदपीच्छातः कार्यमिति ज्ञापयितुं प्रागुत्पुनातोति पुनराहारप्रतिषेधः कृतः । किञ्च उत्पनाति त्रिरित्येव वाच्यं लाघवार्थ। तथा मति सर्वत्रैव कमावृत्तावित्यनेन सन्मन्त्रेण विस्तूष्णीं इति सिद्ध्यति । एवं सिद्धे इदं वचनं ग्टह्ये कर्मावृत्तौ मन्त्रावृत्तिर्भविष्यतीत्येवमर्थ । पूर्वयोगः किमर्थः । अस्याधिकारार्थ दूति चेत् । तहिं प्रागुतानात्याज्यमित्यत्रैव वाच्यम् । अथ पवित्रसंज्ञार्थः तर्हि कुशौ पवित्रे इत्यत्रैव वाच्यम् । उच्यते। पूर्वेणमन्त्रकमुत्यवनं विधीयते । अनेन तु समन्त्रकं। तत्र वैतानिके अमन्त्रकं ग्टह्ये कर्मणि समन्त्रकमित्येवं विनिवेशः ॥ ३ ॥
कृताकृतमाज्यहोमेषु परिस्तरणम् ॥ ४ ॥ कृतिरेव कृतं। कृतञ्च अकृतञ्च यस्य तत् तथोकं । आज्यमेव यत्र हविः स प्राज्यहोमः । अन्यथाज्यग्रहणम्य वैय्यर्थं स्यात् । सर्वत्र ह्याघारादयः सन्येव । श्राज्यहोमेषु परिस्तरणं कार्य वा न वेत्यर्थः । अयं च परिस्तरणविकल्पो यत्राग्रहणमस्ति यथा 'श्राज्याहुतीर्जुहुयात्' इति तत्रैव भवति न पुनरनादिष्टाज्य होमेषु । यद्यनादिष्टहोमेवप्ययं विकल्पः स्यात् तत्राज्यग्रहणमपार्थकं स्यात् ॥ ४ ॥
For Private and Personal Use Only