________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
तथाज्यभागी पाकयज्ञेषु ॥ ५ ॥ तथेति कृताकृतावित्यर्थः। पाकयज्ञेषु सर्वेष्वाज्यभागी का वा नवेत्यर्थः। पाकयज्ञग्रहणमाज्यहोमाधिकारनिवृत्त्यर्थम् ॥ ५ ॥
ब्रह्मा च धन्वन्तरियज्ञशूलगववर्ज ॥६॥
तथेति वर्तते। पाकयज्ञेष्विति च। ब्रह्मा च सर्वेषु पाकयज्ञेषु कृताकृतो भवति। धन्वन्तरियज्ञं शूलगवं च वर्जयित्वा । अथ तयोर्नित्यो भवति उत नैव भवति । तियो भवततीति ब्रमः । कुतः । तयोरुपदेशात् । 'ब्रह्माणमग्निं चान्तरा वै वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य' इति च। तर्हि तस्मादेव नित्योऽस्तु किमनेनेति च शङ्का न कार्या। अस्मिन् विकल्प प्रतिषेधेऽसति उपदेशस्य पक्षे कृतार्थत्वात् । तयोरपि ब्रह्मा चौलवत् कृताकृतः स्यात् । ब्रह्मास्ति चेत् प्रणोताप्रणयनात् पूर्व समस्तपाण्यङ्गुष्ठो भूत्वाऽग्रेणाग्निं परीत्य दक्षिणतः कुशेषु 'निरस्तः परावसुः' इति तृणं प्रत्यग्दक्षिणानिरस्य 'ददमहसी वमोः सदने मोदामि' इति मन्त्रणेपविशेत्। ततो हहस्पतिब्रह्मा ब्रह्मसदन आशिष्यते 'वृहस्पते यज्ञं गोपाय' इत्यन्तं ब्रह्मजपं जपेत् । ततो 'ब्रह्मनपः प्रणेव्यामि' इति कताऽतिसृष्टो 'भूर्भुवः खईहस्पतिप्रसूतः' इति जपित्वा 'ॐ प्रणय' इत्यतिसृजेत् । केचिदतिमर्जनं प्रत्यतिसर्जनञ्च नेच्छन्ति। कौन्ते *प्रायश्चित्तानि संस्थाजपं च कुर्यात् । सर्वदा यज्ञमना भवेदुदमुखश्च ॥ ६ ॥
* सर्वप्रायश्चित्तानोति सो० का० पु० पाठः ।
For Private and Personal Use Only