________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३.६]
एह्यसूत्रे।
अमुष्यै स्वाहेति जुहुयात् ॥ ७ ॥ कचिन्नामधेयेन होम उक्तः । 'साविश्यै ब्रह्मणे' इत्यादि । कचिन्मन्त्रेण होम उक्तः । 'अग्ने नय सुपथा राये अस्मान्' इति चतसृभिरिति । यत्र तु नोभयथा तत्र तु नामधेयेन कथं होमः स्यात् इत्येतत् सूत्रं । प्राजापत्यस्य स्थालीपाकस्य हुत्वा काम्याश्चरव इत्यादौ ॥ ७ ॥
अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मत्यनादेशे॥८॥
यत्र होमस्थानादेशः कर्मणश्चादेशस्त त्रेता देवता होतव्याः । कुत्र । जातकर्मादौ। तहि रथारोहणेऽपि स्यात्। एवं तईि अन्यथा व्याख्यास्यामः । यत्र होमश्चाद्यते न मन्त्रः चौलकर्मादौ 'नेके काञ्चन' [ग्ट०१।४।६] पक्षे तताभ्यो देवताभ्यो जुहोति। मन्त्रानादेश इतोयमेव व्याख्या साध्वी । मन्त्र प्रकरणत्वात् । तेन जातकादौ न होमोऽस्ति। अन्ये तु पूर्वातदोषपरिहारेण वर्णयन्ति । यत्र परशास्त्रे होमचोद्यते स्वशास्त्रे तु कर्ममात्र तत्रैता देवता भवन्तीति । क्व। जातकर्मादौ ॥ ८ ॥ *एकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः ॥६॥
एकबहिरादिर्यषां पाकयज्ञानां ते तथोक्ताः। तुल्यकाला एककालाः । एकस्मिन् काले यद्यनेके पाकयज्ञाः कार्यत्वेन प्राप्ताः तदा ते समानतन्त्राः कार्या इत्यर्थः। किमुदाहरणं। यदा पर्वणि रात्री काम उत्पद्यते तदा काम्यपार्वणयोरेककालत्वं । यदा
* एकबहिरिभाज्येत्यादिपाठः सर्वत्र परन्तु टीकासम्मतः ।
For Private and Personal Use Only