SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० याश्वलायनीये [१. १. १] वाऽऽग्रयणाऽऽश्वयुजी कर्मणी श्राश्रयुज्यां क्रियते तदा तयेोरेकका - लत्वं । बर्हिरादिग्रहणस्य तन्त्रोपलक्षणार्थतां स्पष्टयितुं यज्ञगाथाभुदाहरति ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir तदेषाभियज्ञगाथा गीयते । पाकयज्ञान् समासाद्य एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते ॥ १०॥ इति ॥ ३ ॥ तस्मिन्नर्थे एषा यज्ञगाथाऽभिगीयते पद्यते । बहन् पाकयज्ञामेकस्मिन् काले समासाद्य प्राप्य एकाज्या नेकबर्हिषः एकस्विष्टकृतः कुर्याचानापि सति देवते । न प्रतिदेवतं तन्त्रमावर्तयितव्यमित्यर्थः ॥ १० ॥ ॥ ३ ॥ इति प्रथमे तृतीया कण्डिका ॥ ० ॥ उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चालकर्मेोपनयनगादानविवाहाः ॥ १ ॥ अनेन चौलकर्मीदीनां कालो विधीयते । उदग् यदा गच्छत्यादित्यः तदुदगयनं । तथा लोकप्रसिद्धेः । श्रापूर्यमाणस्य चन्द्रस्य यः पक्षः स तथेोक्तः । सहि मासस्य च पक्षस्य च कर्ती । अथवा श्रापूर्यमाणश्चामी पचश्च श्रापूर्यमाणपक्ष: । सहि चन्द्ररश्मिभिरापूर्यते शुकपत इत्यर्थः । ज्योतिःशास्त्राविरुद्धं कल्याणं नक्षत्रं । चोल For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy