________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. 8. ३]
रह्यसूत्रे।
कर्मेति चौलस्यैव संज्ञान्तरं नतु व्रतादेशानामयं काल व्यते । स कथं प्राप्नोति । उपनयनातिदेशात् । तईि अत्र गोदानग्रहणमपार्थकं चौलातिदेशात् । उच्यते। समावर्तनाथै गोदानग्रहणं । 'गोदानिकं कर्म कुर्वोत' इति कर्मग्रहणं यथा कर्मणेऽन्यनियमे वाग्यमनादिकं निवर्तयति तथा कालमपि निवर्तयेत् । तस्मात् गोदानग्रहणं यत्र गोदानगन्धोऽप्यस्ति तत्रापि यथा स्यात् । तर्हि समावर्तनग्रहणमेव कार्यम् । उच्यते । लाघवार्थे गोदानग्रहणम् ॥
सार्वकालमेके विवाहम् ॥२॥
एके प्राचार्याः सर्वस्मिन् काले विवाहमिच्छन्ति । नोदगयमादिनियमः । तेषां कोऽभिप्रायः । दोषश्रवणात् 'तुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति' इति । अन्ये च लौकिका दोषाः समुत्पद्यन्ते ॥ २ ॥ तेषां पुरस्तात् चतस आज्याहुतीर्जुहुयात् ॥ ३ ॥
तेषांग्रहणं किमर्थं। विवाहस्थानन्तरत्वात् सर्वेषां प्राप्यर्थमिति चेत्। तन्न दर्शनात्। सर्वेषां स्युः यदयं विवाहे चतुर्थीमित्याह । उच्यते। तेषां सम्बन्धिन्यः अन्तर्वर्तिन्यः एता पाहतयो भवन्ति नत तेभ्यः पूर्व भवन्तीत्येवमयं तेषांग्रहणं। तर्हि पुरस्ताद्-ग्रहणमपार्थकं । न। प्रयोजनमुपरिटादच्यामः । सङ्ख्यावचनं किमर्थं । तत्रैके ब्रुवते। यत्र परिमाणवचनं प्रत्यग्रहणं वा
D 2
For Private and Personal Use Only